________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६२८
चरक-संहिता। [आत्रेयभद्रकाप्यीयः भेदश्चैषां त्रिषष्टिविधरसविकल्पो द्रव्य देशकालप्रभावाद भवति। तमुपदेष्यामः ॥ २७ ॥
स्वादुरम्लादिभियोगं शेङ्गरम्लादयः पृथक ।
यान्ति पञ्चदशैतानि द्रव्याणि द्विरसानि हि ॥ सन्धिवन्धं विमोक्षयन् । आशुकारी तथाशुखाद धावत्यम्भसि तैलवत् ।। सूक्ष्मस्तु सौक्ष्म्यात् सूक्ष्मेषु स्रोतःस्वनुसरः स्मृतः। गुणा विंशतिरित्येवं यथावत् परि. कीर्तिताः ॥२६॥
गङ्गाधरः--इत्येवं भौतिकवभेदैन द्रव्याणां पञ्चविधं भेदमुक्त्वाऽपरं भेदमाह-भेदश्चैषामित्यादि। एषामपरश्च भेदस्त्रिपष्टिविधरसविकल्पो द्रव्य प्रभावाद्भवति देशप्रभावात् कालप्रभावाच। द्रव्यप्रभावात् यथा-सोमगुणातिरेकान्मधुर इत्येवमादिः। देशमभावाद यथा-आम्रफलादि देशविशेष मधुरपायं देशविशेषेऽम्लप्रायम्। कालप्रभावाद यथा-कदलफलादि ग्रीष्मे मधुरं हिमे सकषायम्। एवमावस्थिककालप्रभावाच्च यथा-बालमाम्रफलं सकषायाम्लं मध्यमम्लं पक मधुराम्लमिति। एप त्रिषष्टिविधरसः सहज एव द्रवयाणां न तु द्रव्यान्तरसंयोगादिजः कारणत्वेन तत्संयोगादेवमुक्तवात् । तं त्रिषष्टिविधरसविकल्पाद द्रव्याणां भेदमुपदेक्ष्यामः । इति प्रतिज्ञा ॥२७॥
गङ्गाधरः-तदयथा-स्वाद्वित्यादि। द्विरसानि द्रव्याण्यतानि पञ्चदश भवन्ति। कस्मात् ? हि यस्मात् स्वादुमधुरो रसः शेपैरम्लादिभिः पञ्चभिः फलम्, फलमुद्देश्यम् ; कर्म कार्य्यम्, उद्देश्यं फलं यथा,--- योगनिष्पाद्यो धर्मः कार्यतया कर्म, तज्जन्यस्तु स्वर्गादिरुद्देश्यः फलम्, एवं वमनादिप्वपि कर्मवीर्याधिकरणाद्यन्नेयम् ॥ २६ ॥
चक्रपाणिः-सम्प्रति द्रव्यमभिधाय विकृतानां रसानामेव भेदमाह-भेदश्चैपामित्यादि। प्रभावशब्दो द्रव्यदेशकालैः प्रत्येक युज्यते, तत्र द्रव्यप्रभावाद यथा--"सोमगुणातिरेकान्मधुर." इत्यादि, देशप्रभावाद यथा--"हिमवति द्राक्षादाडिमादीनि मधुराणि भवन्त्यनपत्राम्लानि" इत्यादि ; कालप्रभावाद, यथा- "बालानं सकपायं तरुणमम्ल पक्कं मधुर", तथा हेमन्ते "ओपथ्यो मधुरा वर्षास्वम्लाः" इत्यादि। अग्निसंयोगादयो येन्ये रसहेतवः तेऽपि काले द्रव्ये वान्तर्भावणीयाः ॥२७॥ ___ चक्रपाणिः-भेदमाह-स्वादुरित्यादि। तत्र स्वादोरम्लादियोगात् पञ्च, शेपैरिति आदिस्वेनोपयुक्तादन्यैः, तेनाम्लस्य लवणादियोगाच्चत्वारि ; एवं लवणस्य कटादियोगात् त्रीणि, कटकस्य तिक्तकषाययोगाद् द्व, तिक्तस्य कषाययोगादेकम्, एवं पञ्चदश द्विरसानि।
For Private and Personal Use Only