________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२६श अध्यायः
सूत्रस्थानम् ।
६३३ यः स्याद्रसविकल्पज्ञः स्थाच दोषविकल्पवित् । न स मुह्यं द्विकाराणां हेतुलिङ्गोपशान्तिषु ॥ ३२॥ व्यक्तः शुष्कस्य चादौ च रसो द्रव्यस्य लक्ष्यते । विपर्ययेणाणरसो रसो नास्तीह सप्तमः ॥ ३३ ॥ गङ्गाधरः---एतेन किं स्यादिति ? अत आह--यः स्यादित्यादि। यो वैद्यो रसविकल्पज्ञः स्यात् स्याच्च दोपविकल्पवित् स वैद्यो दोषं बिकल्प्य न्यूनाधिकाशं प्रविविच्य रसं तदुपशान्ति हेतु विकल्प्य प्रयुज्य विकाराणां हेतुलिङ्गोपशान्तिषु न मुहेात् भ्रान्तिमान न स्यादिति ॥३२॥
गङ्गाधरः-ननु रसाणुरसौ कथं विज्ञायते इति ? अत आह - व्यक्त इत्यादि। मुखे क्षिप्तस्य शुष्कस्य द्रव्यस्य व्यक्तो रस आदौ लक्ष्यते। तस्य द्रव्यस्याद्रीभावे पुनस्तद्वाक्तरसविषय्य येणाणुरसो लक्ष्यते न खतिरिक्तो रसो लक्ष्यते। तस्मादिह जगति सप्तमो रसो नास्ति । इति ॥३३॥ व्यक्तषड्ससंयुक्तमुक्तम् ; एवं द्विरसादिगव्ययोगाद द्विरसादुरपयोगः ; तथा संयुक्तांश्च रसानिति,एकैकरसादिद्रव्यमेलकात् संयुक्तान् रसान् तथैकैकज्ञः कल्पयन्ति प्रयोजयन्ति ; गदान प्रतीति प्राधान्येन,तेन स्वस्थवृत्तेऽपि बोद्धव्यम् ; किंवा, द्विरसादिभेदो गद एव,स्वस्थे तु सरसप्रयोग एव, यदुक्तम् - "समसरसं सात्म्यं समधातोः प्रशस्यते"। एवञ्च व्याख्याने सति "क्वचिदेकरसः" इत्यादिना सममस्य न पोनरुक्तयम् ; किंबा, “क्वचिदेकर सः” इत्यादिना स्वमतमुक्तम्, अत्रैवार्थे "द्रव्याणि द्विरसादीनि” इत्यादिना आचारयन्तिरसम्मतिं दर्शयति ; अत एवाचार्यान्तराभिप्रायेण "कल्पयन्ति" इत्युक्तम् , तेन न पौनरुक्तम् ॥ ३०१३ ॥
चक्रपाणिः-रसज्ञानफलमाह-यः स्यादित्यादि। अत्र रसविकल्पज्ञानादेव व्याधिहेतुद्रव्यज्ञानं कृत्स्रमवरुद्धम् ,रसज्ञानेनैव प्रायः सकलद्रव्यगुणस्य वक्ष्यमाणत्वात् । दोषविकल्पज्ञानाच्च लिङ्गज्ञानम्, यावद्धि लिङ्गं, तत् सर्च दोपविकल्पसम्बद्धम् ; रसदोषविकल्पज्ञानात् तु भेषजज्ञानम्, यतः, रसतः स्वरूपज्ञानं भेपजद्रव्यस्य, दोपश्च भेपजप्रयोगविषयविज्ञानम् ; किंवा, रसविकल्पाच्च तथा दोपविकल्पाच्च हेत्वाविज्ञानं पृथगेव वक्तव्यम्, रसभेदाद्धि तत् कार्य लिङ्गमपि ज्ञायते ; हेतुभेषजविज्ञानन्तु रसभेदविज्ञानादेव वक्तव्यम, यतः रसभेदवद्व्यमेव विकाराणां हेतुर्भेषजञ्च भवतीति, एवं दोपभेदं ज्ञात्वा च तस्य समानं हेतु प्रत्येति, दोषविरोधि च द्रव्यं भेषजमिति ; तद् युक्तमुक्तम् 'न स मुह्यद्विकाराणां हेतुलिङ्गोपशान्तिषु' इति ॥ ३२॥
चक्रपाणिः-पूर्वोक्तरसानुरसलक्षणमाह-व्यक्त इत्यादि। शुष्कस्य चेति चकारादास्य च, आदौ चेति चकारादन्ते च ; तेन शुष्कस्य वा आर्द्रस्य वा प्रथमजिह्वासम्बन्धे वा आदावास्वादान्ते वा यो व्यक्तत्वेन मधुरोऽयमम्लोऽयमित्यादिना विकल्पेन गृह्यते, स व्यक्तः । यस्तूक्तावस्थाचतुथ्ये.
For Private and Personal Use Only