________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
चरक संहिता |
८२
[ दीर्घञ्जीवितीयः
पाकात् पृथक्त्वारम्भको दृश्यते । तत्र यस्य भावो यस्तस्य प्रतियोगी स एव तत्त्वञ्च प्रतियोगितावच्छेदकम् । संयोगादेश्चोत्पत्तिः संयोगिषु समवाययुक्तान्यतरः समवायस्यानित्यत्वात् । व्याख्यातश्च स नित्य इत्यादिना । वृत्तप्रभावस्तु खलु वर्त्तमाने सति काले कालेतरयदाधारे यस्याधेयतया वृत्तौ प्रसज्यो यः संयोगसमवाययुक्तान्यतमः संसर्गस्तस्य विरोधी विभागानेकत्वासं योगरूपपृथक्त्वान्यतरो भावोऽत्यन्ताभावो वैलक्षण्यं तु तत्त्वमत्यन्ताभावस्याहुरन्ये । यथा. अग्र इह भूतले घटो नास्तीत्या भूतनिष्ठाधिकरणतानिरूपितघट निष्ठाधेयताघटकसंसर्गतया प्रसज्यस्य संयोगस्य विरोधी भूतलघटयोर्विभागोऽस्तीत्यर्थः । इह घटे नीलरूपं नास्तीत्यादौ घटरूपयोः समवायस्य विरोधि पृथक्त्वमस्तीत्यर्थः । गवि लाङ्गलं नास्ति इत्यादौ समवायविरोधी गोलाङ्गलयोः पृथक्त्वं विभागो वास्तीत्यर्थः । अस्मिन् पुरुषे सुखं नास्तीत्यादौ पुरुषसुखयोर्योगविरोधि असंयोगत्वमस्तीति । अप्रसज्यस्य तु संसगस्य वृत्तेरभावो यथा ; इह भूतले समवायेन घटो नास्तीत्यादौ भूतलघटाद्योः समवायस्याप्रसज्यस्य संसर्गस्य विरोधिवृत्तिनियामकः संयोग इति संयोगोऽत्रात्यन्ताभावः । घटे संयोगेन रूपं नास्तीत्यादौ अप्रसज्यसंयोगस्य विरोधी प्रसक्तोऽस्ति समवाय इति समवायोऽत्रात्यन्ताभावः । रूपे संयोगेन रूपत्वं नास्तीत्यादौ प्रसज्यस्य संयोगस्य विरोधी प्रसक्तोऽस्ति समवाय इत्यपि समवायोऽत्रात्यन्ताभावः । पक्के घटे श्यामो नास्तीत्यादौ समवायेन प्रसक्तस्य श्यामस्य अपायात् प्रसज्यस्य समवायस्य विरोधी असंयोगाख्यपृथक्तुम् अत्यन्ताभावः । एवमामघटे लौहित्यं नास्तीत्यादौ समवायेन प्रसज्यस्य लौहित्यस्य निषेधात्त प्रसज्यस्य समवायस्य विरोधी असंयोगः पृथक्त्वम् । आकाशस्य पुष्पं नास्तीत्यादौ चैवमेव बोध्यम् । पर्युदासनत्रा अभावबोधने प्रसज्यत्व नापेक्ष्यते तत्समभिव्याहृतपदार्थेतरवस्त्ववस्तुद्योतकत्वात् ।
इह
अत एव न निपातो द्विविधः प्रसज्यप्रतिषेधार्थकः पय्युदासार्थ कश्च । प्रतियोगिनः प्रसक्तिं कृत्वा यत् प्रतिषिध्यते स प्रसज्यप्रतिषेधः । परितः सर्वतः प्रसिद्धाप्रसिद्धिभ्यामुदास्यते यत् प्रतिषिध्यते सः पर्युदासः । क्रियायोगे प्रसज्यप्रतिषेधार्थो नन्; अन्यथा ग्रामं न गच्छतीत्यादौ ग्रामादेः कर्मखादिकारकत्वानुपपत्तिः । नामयोगे धातुयोगे पर्युदासो यथा; अब्राह्मणो न रूपमाकाशे आकाशं न पश्यत्यन्ध
·
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only