________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१म अध्यायः ]
सूत्रस्थानम् ।
८१
प्रतियोगितावच्छेदकञ्च पृथक्त्वकृत् विशेषो मनुष्यत्वसामान्यापेक्षो ब्राह्मणत्वम् । सति हि सामान्येन ग्रहे विशेषणग्रह एव पृथक्त्वग्रहे हेतुः । स चान्योन्याभावस्त्रिविधः सजातीयप्रतियोगिको विजातीयप्रतियोगिको धार्म्मधर्मिकश्च । तद यथा- न ब्राह्मण इत्यादौ सजातीयत्वेन क्षत्रियादिमनुष्यो नञा प्रत्याययते न तु गवादिः । नरात् पृथक् पशुरित्यादौ विजातीयत्वेन पृथक्शब्दः पश्वादिप्रत्यायको द्रव्यत्वसामान्यापेक्षपशुत्वादिप्रतियोगिताकत्वात् । पुरुषो न हस्तो घटात् पृथक् तद्रपमित्यादौ धम्मैवम्मिंणोः पृथक्त्वात् धर्मधर्मिणोः परस्परं हि भावप्रमेयत्ववाच्यत्वादिसामान्येन सत्यपि सजातीयत्वे सजातीयत्वaraहारो विलक्षण सामान्ययम्प्रेणैव न तु सामान्यमात्रमेण विजातीयत्वानुपपत्तेः । सर्व्वं हि सजातीयस्थाले स्यात् । धर्मधर्मिणोच विजातीयत्वेऽपि समवेतत्वेनैकत्वेन ग्राह्यत्व-विजातीयत्व - व्यवहारो न तु सजातीयत्वव्यवहारः । यत्र च वाक्ये आधाराधेयभावापन्नयोः पदार्थविषयाभासमानयोराधा राधेयताघटकसंसर्गविधया प्रसज्योऽप्रसज्यो वा यस्तु भावस्तयोर्मध्ये प्रसज्यस्य संसर्गविधया भासमानस्य भावस्य विरोधिनि भावेऽप्रसज्यस्य च आधाराधेयताघटकसंसर्गीतया प्रसज्ये भावे यत्तृथक्त्वं तत्संसर्गाभावः स च विरोधिप्रसज्यश्च भाव आधाराधेयताarriers संसर्गाभावतया ग्राह्यं तत् पृथक्त्वञ्च संसर्गाभाव इति । स च संसर्गाभावस्त्रिविधः प्रागभावध्वंसात्यन्ताभावभेदात् । तत्र प्रागुत्पत्तिकालेन सह भावस्य द्रव्यस्याधाराधेयत्वे संयोगो गुणकर्मणोः परम्परया समवायिसंयोगो वा संसर्गः प्रसज्यस्तस्य । तद्भावोत्पत्तेः पूर्व्वकालेन सह आधाराधेयतायां विरोधिविभागोऽयोगरूपपृथक्त्वं परम्परया समवायिविभागो वा पृथक्लं प्रागभावः । यथा घटो रूपञ्च श्वो भविष्यतीत्यादौ घटरूपयोरुत्पत्तिकालपरदिनात् पूर्वकाले वर्त्तमानेन दिनेन सह घटस्य संयोगासम्भवात् विभागः रूपस्य चासंयोगाख्यपृथक्त्वं प्रागभावो घटरूपयोरस्मिन् दिने । अनेन दिनेन सह घटरूपीयविभागपृथक्त्वयोर्यद्वैलक्षण्यं स प्रागभावः । ध्वंसः पुनरुत्पत्तु प्रत्तरकालेन सह तत्तल्लक्षणाधाराधेयतायां "विरोधो विभागपृथक्त्वान्यतररूप: संसर्गों वैलक्षण्यं ध्वंसः । यथा घट नष्टः रूपं नश्यति इत्यादि । यद्वा उत्पत्तेः पूर्व्वकाले यः समवायिकारणानां समवाययुक्तान्यतरलक्षणोत्पत्तिविपर्ययपृथक्त्वं प्रागभावस्तत्र च वैलक्षण्यं प्रागभावः । उत्पत्तेरुत्तरकाले च ध्वंसः । आमे हि घटे श्यामगुणस्य
११
For Private and Personal Use Only