________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चरक-संहिता। [दोर्घजीवितीयः परिमाणविशेषो वा वैलक्षण्यं गुणो वा भेदः । आकृतिपरिमाणविशेषो 'न गोः पाद इत्यादौ गोपदस्य पाश्चभौतिकवं भेदः ; नायं स गौरित्यत्रापि एतद गवैतद गवस्यास्ति कश्चिद्भेदको गुणकांकृतिविशेषः, स एव किं भेदस्तस्येष्टखे भेदभेदकयो दात कस्य भवत्यापत्तिः ; क उ. कम्मेणोरेकले क उ प्रयोगेऽपि कम्मणोभेदेऽपि नात्र भेदः कम्म तच्च तद गव इति भेदः क्रिया सदनुकूलच्यापारशाली भेदक इत्यनुभवादिति चेत् ; उच्यते--तद गवे यः कश्चिदस्ति गुणकाकृतिविशेषैरेतद गवस्य विशेषः स च भेदक एव विशेषाख्यो भावो “विशेषस्तु पृथक्त्वकृत्” इति विशेषस्य लक्षणेन लभ्यते हि पृथक्वं गुणो भेदः पृथक्वकृत् भेदको विशेषाख्यो भावः। तस्माद्भदः पृथक्त्वाख्यो गुण एव नातिरिक्तः। तेन न भावोऽभाव इति चतुर्णा भावानां मध्ये यो भावो यस्माद्भावात् पृथक्त्ववान् सोऽभावः पृथक्त्वमात्र वैलक्षण्यं भेद इति नत्रा बोध्यते न तु त्रिविधपृथक्त मेवाभावः। तदर्थे द्योतकनत्रः समासासम्भवात् । नञ्तत्पुरुषो हि तुल्याधिकरणार्थद्योतकख एव न तु भेदार्थे । तथा हि न ब्राह्मण इति विग्रह एवाब्राह्मण इति समासो नबा द्योत्यभेदाश्रयस्य तादात्म्याश्रयो ब्राह्मण इत्यनुभवात् । न हि भवति नद्योत्यस्य भेदस्यान्वयः प्रथमान्तब्राह्मणपदार्थे तादात्म्येन । न हि भेदो ब्राह्मण इति । यदि च ब्राह्मणस्य भेद इति विग्रहे षष्टान्तब्राह्मणेन सह नब समस्यते, तहि पृथङ् नसमाससूत्रप्रणयनमनर्थकं स्यात् तच्चेदिष्यते तदा उत्तरपदस्य सम्बन्धपर्यन्तार्थे वृत्त्या गौणखे नासौ ब्राह्मणः अगौरः अगौरी कालीत्यादौ सर्वनामसंज्ञासामानाधिकरण्यश्च वयाहन्यते। एवं सति द्रव्यादिचतुर्भावान्यतमभावभिन्नोऽन्यतमो भावोऽभावः ; स च यत्र वाक्ये तादात्म्येनान्वेतुमर्हति, अथ प्रसज्यपदार्थतया भासते, तत्र नबा यत् पृथक्ववत्तया प्रतिपाद्यते तत् पृथक्खमन्योन्याभावः भावप्रधाननिर्देशे । यथा न ब्राह्मणो राजा इत्यादौ समानविभक्तिमत्तेन तादात्म्येन नान्वेतु प्रसज्यतया भासमानो ब्राह्मणपदार्थो राजपदार्थन, नत्रा चात्र ब्राह्मणात् पृथक्वगुणशाली राजेति गम्यते । राशि पृथक्वस्य प्रतियोगी ब्राह्मणः,
व्यक्तयः । अन्यैस्तु नित्यानित्यभेदेन द्विविधः समवायो व्याख्यातः, अयञ्च ग्रन्थो भूम्यादीनां गुणैरेव यः सम्बन्धः तस्य व यथाश्रुतस्य प्रतिपादक इत्यादि व्याख्यातम्, तत्तु न व्यापकं नापि वैशेषिकमतानुयायीति नेह प्रपञ्चितम् ॥ २२ ।।
For Private and Personal Use Only