________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६२६
चरक-संहिता। (आत्रेयभद्रकाप्योयः गुणप्रभावादेव द्रव्याणि कामकाणि स्युः। द्रव्याणि हि द्रव्यप्रभावाद गुणप्रभावाद् द्रव्यगुणप्रभावाच्च तस्मिंस्तस्मिन् काले तत्तदधिकरणमासाद्य तां ताञ्च युक्तिमर्थञ्च तं तमभिप्रेत्य तमर्थ प्रयोजनं व्याधीनां कारणानाञ्च यस्य यद्यदगुणादिमत्वं तत्तद गुणादिविपरीतगुणं द्रव्यमुपयुज्यमानं साधयतीति तां तां युक्तिमभिप्रेत्य अनौषधीभूतं जगति किश्चिन्नोपलक्ष्यते, सब्वमेव द्रव्यमौषधमुपलक्ष्यते । तहि किं द्रव्यं गुणप्रभावात् कर्म करोतीति चेत ? तदा उच्यते-न खित्यादि। द्रव्याणि न केवलं गुणप्रभावादेव काम्मु काणि कर्मकारीणि भवन्ति । कस्मादिति ? अत उच्यते-द्रव्याणि हीत्यादि। हि यस्माद् द्रव्याणि कचिद्रव्यप्रभावात् कचिदगुणप्रभावात् कचिद्रव्यगुणोभयप्रभावाच तस्मिंस्तस्मिन् काले यत् काले यत् समर्थ स्यात् तत्तत् काले तत्तदधिकरणं यत्र यत्र व्याध्यादिषु यद् यत् प्रयोजनमभिप्रत्य प्रयुक्तानि भवन्ति तत्तदधिकरणं व्याध्यादिकमासाद्य तं तमर्थ प्रयोजनं वमनविरेचनास्थापनसंशमनादिकम् अभिप्रत्य तत्तप्राध्यादिविपरीतानि प्रयुक्तानि कर्म कुर्वन्तीति कामुकाणि भवन्ति। तत्र यत् कुव्वन्ति द्रव्याणि तां तां युक्तिमर्थश्च तं तमभिप्रत्य प्रयुक्तानि तस्मिंस्तस्मिन् काले तत्तदधिकरणमासाद्य द्रव्यप्रभावात् गुण
इत्याह---तां तां युक्तिमित्यादि। युक्तिमित्युपायम्, अर्थमिति प्रयोजनम्, अभिप्रत्येत्यधिकृत्य, तेन केनचिदुपायेन क्वचित् प्रयोजने किञ्चित् द्रव्यमौषधं स्यात्, न सर्वत्र ; तेन, यदुच्यते-- वैरोधिकानां सर्वदाऽपथ्यत्वेन “नानौपधं द्रव्यम्" इति वचोविरोधि, तन्न स्यात् ; वैरोधिकानि संयोगसंस्कारदेशकालाद्यपेक्षाणि भवन्ति, रोधिकसंयोगाद्यभावे तु पथ्यान्यपि क्वचित् स्युः ; यान्यपि सर्वदापि स्वभावादेव विपमन्दकादीन्यपथ्यानि, तान्यप्युपाययुक्तानि क्वचित् पथ्यानि स्युः, यथा-"उदरे विषस्य तिलं दद्याद्" इत्यादि। यत्,-तृणपांशुप्रभृतीनि नोपयुज्यन्ते,अतो न तानि भेषजानीत्युच्यते, तन्न, तेपामपि भेषजस्वेदाधु पायत्वेन भेषजत्वात् ।
पार्थिवादिद्रव्याणां गुरुखरादिगुणयोगाद भेषजत्वमुक्तं, तेन गुणप्रभावादेव भेषजं स्यादिति शङ्कां निरस्यन्नाह-न तु केवलमित्यादि। द्रव्यप्रभावाद् यथा- दन्त्या विरेकत्वं, तथा मणीनां विषादिहन्तृत्वमित्यादि ; गुणप्रभावाद यथा-वरे तिक्तको रसः, शीतेऽग्निरित्यादि ; द्रव्यगुण. प्रभावाद् यथा-कृष्णाजिनस्योपरीति, अत्रापि कृष्णत्वं गुणोऽजिनञ्च द्रव्यमभिनतम् ; यथा च-मण्डलैर्जातरूपस्य तस्या एव पयः शृतं ; तत्र मण्डलगुणयुक्तस्यैव जातरूपस्य कामुकत्वम् । कथं कुन्तीत्याह-तस्मिंस्तस्मिन्नित्यादि। तां तां युक्तिमासाद्यति तां तां योजनां प्राप्य ;
For Private and Personal Use Only