________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२६श अध्यायः
सूत्रस्थानम् ।
६२५ अनेनोपदेशेन नानौषधीभूतं जगति किश्चिद्रव्यमुपलक्ष्यते तां तां हि युक्तिमर्थश्च तं तमभिप्रेत्य। न तु केवलं नाभिव्यज्यन्ते गुबर्वादयो गुणाः किश्चित्स्थूलाश्च भवन्ति । रूपञ्च शुक्लखमपां तदगन्धमात्रपृथिव्या अत्यनभिवयक्तकृष्णेन मिश्रीभूतं व्यक्तकृष्णवेनाभिनिवर्तते । रसश्चाव्यक्त एव किञ्चित्स्थूलो वर्तते। गन्धश्च किञ्चित्स्थूलो वत्तंते। इत्येवमेकद्वित्रिचतुःपञ्चगुणानां पञ्चानां भूतानां कार्यारम्भे यथा पृथिव्यादिद्रव्यात सजातीयद्रव्यान्तरं जायते तथा शब्दादिभ्यो गुणेभ्यः सजातीयं गुणान्तरमभिवयज्यते। पञ्चानां शब्दादिदशविधः शब्दविशेषः । वायव म्बुनोः स्पर्शाभ्यां शीतस्तेजसः स्पर्शादुष्णः पृथिव्या वायोश्च अत्यनभिव्यक्तखरात् खरः आकाशस्यात्यभिव्यक्तश्लक्ष्णाद व्यक्तः श्लक्ष्णः । भूजलयोरत्यनभिव्यक्तान्मान्द्यान्मान्द्यम् । सान्द्रात् सान्द्रः। जलाकाशयोरत्यन भिव्यक्तात् माईवात् माद्दवम् । भूतेजोवायूनामत्यनभिव्यक्ताद विशदाद्विशदः । तेजोऽनिलयोरत्यनभिव्यक्ताद रुक्षाद रुक्षः। तेजोवाय्वाकाशानामत्यनभिवयक्ताल्लघुखाल्लघुतम्। सौक्ष्म्यात् सौम्यम्। इत्येवं पृथिव्या अत्यनभिवयक्ताद गुरुत्वाद् गुरुत्वम् काटिन्यात् काठिन्यम स्थैर्यात् स्थैय्यम् वेशद्याद्व शद्यम् स्थौल्यात् स्थौल्यमभिनिर्वर्त्तते। तथैवापामत्यनभिव्यक्ताद् द्रवलाद् द्रवलम् स्निग्धखात् स्निग्धवं सरवान् सरखं पैछिल्यात् पैच्छिल्यमभिनित्यत्तते। एवञ्च तेजसोऽत्यनभिव्यक्तात् तेण्यात् तैक्षप्यमभिनिव्वतते। तथा वायोरत्यनभिवयक्तादुक्ता लघ्वादयः। आकाशस्याप्युक्ता मृदुखादयः । इति पार्थिवादिषु पाश्चभौतिकेषु द्रव्येषु गुरुखादयो गुणा विंशतिनानुपादाना अभिवयज्यन्ते। तस्माद द्रव्याणि सजातीयद्वयान्तरमारभन्ते गुणाश्च सजातीयगुणान्तरं न तु विजातीयम् । ततः कारणगुणपूवंकः काव्यगुणो दृष्ट इति। कम्माणि तानि तानि चोतक्षेपणावक्षेपणप्रसारणाकुश्चनगमनान्यारभन्ते यथायथं सजातीयविजातीयानि। इति तत्त्वम्॥२५॥
गङ्गाधरः-- नन्वेवं पाञ्चभौतिकानां पार्थिवादीनामुपदेशेन किं स्यादिति ? अत उच्यते-अनेनेत्यादि। अनेनोपदेशेन खल्वनौषधीभूतं किञ्चिदपि द्रव्यं जगति नास्तीत्युपलक्ष्यते। कस्मात् ? अत आह-तां तामित्यादि। तं
चक्रपाणिः-अनेनेति प्रतिनियतद्रव्योपदेशेन यत् पार्थिवादि द्रव्यं यद्गुणं, तद्गुणे देहे सम्पाद्य भेषजं भवतीत्यर्थः , तच्च पार्थिवादि द्रव्यं न सर्वथा न च सर्वस्मिन् व्याधौ भेषजम्
For Private and Personal Use Only