________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६२४
चरक संहिता |
यदा सहव भवस्तदा तद्रससहिता अत्यनभिव्यक्तद्रवस्निग्धशीतमन्द सरसान्द्रमृदुपिच्छिलाः अष्टौ गुणाश्चास्वजायन्त । तथा साधारणो गन्धञ्च पृथिवी च यदा सहवाभूत् तदा तद्गन्धसहिता अत्यनभिव्यक्ता गुरुखरकठिनमन्दस्थिरविशदसान्द्रस्थूलाचा गुणाः पृथिव्यामजायन्त ।
एवमेषामाकाशादीनां कर्माणि पञ्चात्यनभिव्यक्तानि तदैवाकाशादिषु अजायन्त । न चैतान्यत्यनभिव्यक्तवादाकाशादिषूपदिष्टान्याचाय्यः । आचार्याणां हीयं रीतिः - आदुत्पत्तौ ये भावा नाभिव्यज्यन्ते न ते तदा निर्दियन्ते नाप्युपदिश्यन्ते यदाभिव्यज्यन्ते तदा निद्दिश्यन्ते । तथा च सगुणक्रियमेव द्रव्यमुत्पद्यते न तु निर्गुणक्रियमिति चोक्तम् । एवं सत्याकाशस्य भूतान्तरसंयोगे तत् क्रियाभिव्यक्तिस्वभावं कम्मत्यनभिव्यक्तं तदा बभूव, तस्मान्निष्क्रियमुच्यते स्थौल्येऽप्यभिव्यक्तकर्माभावात् । वायोः सव्वंतोगतिस्वभावमत्यनभिव्यक्तं कम्मे बभूव । तेजसश्चात्यनभिव्यक्तमूर्द्धज्वलन स्वभावं कर्म बभूव । अपामधोगतिस्वभावमत्यनभिव्यक्तं कम्भूत् । पृथिव्या धीरगतिस्वभावमत्यनभिव्यक्तं कम्मभूदिति । तथा च दिक्कालयोगात् स आकाशः किञ्चित्स्थूलो यथा स्यात् तथा शब्दादयश्च गुणाः किञ्चित्स्थूला भवन्ति । कर्म च किञ्चित्स्थूलं स्यान्न चाभिव्यज्यन्ते क्वापीति सव्र्व्वदैकांशोऽनभिव्यक्तशब्दश्च निष्क्रियश्चोच्यते । तस्यानुप्रवेशाद् द्वात्मके वायौ शब्दः किञ्चित्स्थूलः स्यात् । स्पर्शश्च शीतत्वेनाभिव्यज्यते नाभिव्यज्यन्ते लघ्वादयः । कर्म च सर्व्वतोगतिरूपेणाभिव्यज्यते । तस्य झात्मकस्य वायोरनुप्रवेशात् त्रात्मके तेजसि शब्दः किञ्चित्स्थलो धकधगिति रूपोऽव्यक्त एव भवति । स्पर्शश्च वायोः शीतो वायोः क्रिययाऽत्यनभिव्यक्तोष्णस्पशः प्रव्यक्तः प्रदीप्तः स चाभिव्यज्यते । एवं तीक्ष्णादयः किञ्चित्स्थूला भवन्ति न चाभिव्यज्यन्ते । साधारणञ्च रूपं तदा लोहितं भवति । तस्यैव त्रात्मकस्य तेजसोऽप्स्वनुप्रवेशाच्चतुरात्मिकास्वप्सु शब्दः पूर्वतः किञ्चित्स्थूलः कलकलरूपः साधारणोऽव्यक्तः स्यात् । स्पर्शश्च शीतो वायोर्व्यक्तो जलस्यानभिव्यक्तः शीत इति द्वयमेकीभतं तेजस औष्णामभिभूयाभिव्यज्यते शीत एव । द्रवादयो नाभिव्यज्यन्ते किञ्चित्स्थूलाश्च भवन्ति । रूपञ्चात्यनभिव्यक्तं शौक्कत्र लोहितसंसर्गादभिव्यज्यते शौक्लामेव । रसश्राव्यक्तो वर्त्तते किञ्चित्स्थल एव । एवं तासां चतुरात्मिकानामपां पृथिव्यामनुप्रवेशात् पञ्चात्मिकायां पृथिव्यां शब्दः पूर्व्वतः किञ्चित् स्थूलोऽव्यक्त एव जायते । स्पर्शश्च खरोऽभिव्यज्यते
For Private and Personal Use Only
[ आत्रेयभद्रकाप्यीयः