________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२६श अध्यायः सूत्रस्थानम् ।
६२१ गन्धगुणवहुलानि पार्थिवानि। तान्युपचयसङ्घातगौरवस्थैय्यकराणि स्युः ॥ २१॥
द्रवस्निग्धशीतमन्दसरसान्द्रमृदु-पिच्छिलरस-गुणबहुलानि आप्यानि । तान्युपक्ल दस्नेहबन्धविन्यन्दमाईवप्रह्लादकराणि ॥ २२ ॥
उष्णतीक्ष्णसूक्ष्मलघुरुक्षविशदरूप-गुणबहुलानि आग्नेयानि। तानि दाहपाकप्रभाप्रकाशवर्णकराणि स्युः ॥ २३ ॥
लघुशीतरुक्षखरविशदसूक्ष्मस्पर्शगुणबहुलानि वायव्यानि। तानि रौक्ष्यग्लानिविचारवेशद्यलाघवकराणि ॥ २४ ॥ तत्रेत्यादि। तत्र पाश्चभौतिकेषु द्रव्येषु चेतनावत्स्वचेतनेषु च मध्ये गुर्वादिनवगुणबहुलानि द्रव्याणि पार्थिवानि पृथिवीबहुलपञ्चभूतात्मकानि । शेषाणां भूतगुणानां द्रवादीनामबहुलखमेष पार्थिवेषु द्रव्येष्विति ख्यापितम् । तेषां पार्थिवानां कर्माण्याह- तान्युपचयेत्यादि। तानि पार्थिवद्रव्याणि खलूपयुक्तानि शरीरादीनामुपचयसंघातगौरवस्थैय्यकराणि भवन्ति ॥२१॥
गङ्गाधरः-द्रवेत्यादि। तत्र द्रव्याणीत्यनुवत्तेने। द्रवादिरसान्तनवगुणबहुलानि द्रव्याण्याप्यानि भवन्ति अब्बहुलपाश्चभूतात्मकानि, तेनाबहुल. भूतगुणा अपि गुर्वादयः शेषभूतगुणा अबहुलतया सन्तीति ख्यापितम् । तेषामाप्यानां काण्याह-तान्युपेत्यादि। तान्याप्यानि द्रव्याणि खलूपयुक्तानि शरीरादीनामुपक्लेदस्नेहबन्धविष्यन्दमाद्देवप्रहादान कुर्वन्ति ॥२२॥
गङ्गाधरः-उष्णेत्यादि। अत्र द्रव्याणीत्यनुवर्तते। उष्णादिसप्तगुणबहुलानि द्रव्याण्याग्नेयानि तेजोबहुलपश्चभूतात्मकानि। एतेनाबहुलभूतानां गुणा अपि शेषा ये तेऽप्यबहुलखेनाग्नेयेषु वत्तेन्ते। इति ख्यापितम् । तेषामाग्नेयानां काण्याह-तानीत्यादि । तान्याग्नेयानि द्रव्याणि उपयुक्तानि शरीरादीनां दाहपाकप्रभाप्रकाशवर्णान् कुर्वन्ति ॥२३॥
गङ्गाधरः-लघुशीतेत्यादि। अत्र द्रव्याणीत्यनुवत्तते। लघ्वादिसप्तबन्धनं परस्परयोजनसम्बन्धः, प्रह्लादः शरीरेन्द्रियतर्पणं, सूक्ष्मं सूक्ष्मस्रोतोऽनुसारि, प्रभा वर्णप्रकाशिनी दीप्तिः, यदुक्तम्,-"वर्णमाकामति च्छाया प्रभा वर्णप्रकाशिका' इत्यादि ; विचारणं
११६
For Private and Personal Use Only