________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२०
चरक संहिता |
| आत्रेयभद्रकाप्यीयः
सव्वं द्रव्यं पाञ्चभौतिकमित्यस्मिन्नर्थे तच्चेतनावदचेतनश्च तस्य गुणः शब्दादयो गुर्व्वादयश्च द्रवान्ताः । कर्म पञ्चविधमुक्तं वमनादि ॥ २० ॥
तत्र द्रव्याणि गुरुखरकठिनमन्दस्थिर विशदसान्द्रस्थूल
गङ्गाधरः -- तदयथा सर्व्वमित्यादि । सर्व्वं पृथिव्यादिकाय्यं द्रव्यं शरीरेन्द्रियविपयसंज्ञकम् । पाञ्चभौतिकं पञ्चभिर्भूतैर्निष्पादितं पञ्चभूतप्रकृतिकम् । अस्मिन् पाञ्चभौतिकेऽर्थं तत् सव्वं द्रव्यं चेतनावदचेतनञ्च । तत्र "सेन्द्रियं चेतनं द्रव्यं निरिन्द्रियमचेतनम्" इति पूर्वाध्यायेऽभिहितम् । तत्र भूतानि पञ्च खल्वनभिव्यक्तशब्दमात्र आकाशोऽभिव्यक्तस्पर्शमात्रो वायुरभिव्यक्तरूपमात्रं तेजोऽभिव्यक्तरसमात्रा आपोऽभिव्यक्तगन्धमात्रा पृथिवीति । तस्य गुणा इति । तस्य पाञ्चभौतिकस्य चेतनावतोऽचेतनस्य च गुणाः कार्य्यभूताः शब्दादयस्ते दशविधशब्दशीतोष्णादिस्पर्श-लोहितादिरूप-मधुरादिरस सौरभादिगन्धाः । गुर्व्वादयश्च द्रवान्ताः काय्यगुणा यज्जः पुरुषीयेऽभिहिता गुरुलघुशीतोष्ण स्निग्धरुक्षमन्द-तीक्ष्णस्थिरसरमृदुकठिन विशद पिच्छिल श्लक्ष्णखरसूक्ष्मस्थूलसान्द्रद्रवा इति । कर्म च काय्यभूतं वमनादि पञ्चविधमुक्तम प्रथमाध्याये ॥ २० ॥
गङ्गाधरः- तत्रापरिसङ्घ प्रयमपि पाश्चभौतिकं द्रव्यं संग्रहण परिसङ्ख्यातुमाह"स्नेहनप्रीणन इत्यादि, तद् गृह्यते । अग्र इत्यादि । रसेषु वाच्येषु द्रव्यभेदमभिप्र ेत्य प्रतिपादनीयतया परिगृह्य रसानां द्रव्यज्ञानाधीनज्ञानत्वात् द्रव्याभिधानमग्रे कृतमित्यर्थः किञ्चिदिति आयुर्वेदोपयोगि द्रव्यस्वरूपं न सर्व्वमिति, अप्रसङ्गदोषादिति भावः ॥ १३ – १९॥
चक्रपाणिः - सर्व्वद्रव्यमिति कार्यद्रव्यम्; अस्मिन्नर्थेऽस्मिन् प्रकरणे । द्रवान्ता इति वचनेन पूर्वोक्तान् विंशतिगुणानाह ; अत्र परत्वापरत्वादीनामिहानभिधानेन चिकित्सायां परत्वादीनामप्राधान्यं दर्शयति, येऽपि तत्रापि युक्तिसंयोगपरिमाणसंस्काराभ्यासा अत्यर्थचिकित्सोपयोगिनोऽपि न ते पार्थिवादिद्रव्याणां शब्दादिवत् सांसिद्धिकाः, किं तर्हि, आधेयाः, भत इह नैसर्गिक गुणकथने नोक्ताः ; उक्तमित्यपामार्ग तण्डुलीये; एतच्च प्राधान्यादुच्यते, तेन, वृंहणाद्यपि बोद्धव्यम्; बहुलशब्दो गुर्व्वादिभिः प्रत्येकं सम्बध्यते, किंवा, गन्धेनैव यतः, गन्धगुणबहुला पृथिव्येव भवति, अत एव द्रव्यान्तरलक्षणेऽपि वैशेषिकगुणोऽन्त एव पठ्यते" रस गुणबहुलानि " इत्यादि, तेन तत्रापि रसादिभिरेव बहुलशब्दो योज्यः; सर्व्वकार्यद्रव्याणां पाञ्चभौतिकत्वेऽपि पृथिव्याद्यत्कर्षेण पार्थिवत्वादि ज्ञेयम्, सङ्घातः काठिन्यं, स्थैर्यमविचाल्यम्,
For Private and Personal Use Only