________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६१६
चरक-संहिता। (आत्रेयभद्रकाप्यीयः क्षरणात् क्षारः, नालो रसः द्रव्यं हि। तदनेकरससमुत्पन्नमनेकरसं कटुकलवणभूयिष्ठमनेकेन्द्रियाथसमन्वितं करणाभिनिवृत्तम् ॥ १४ ॥
गङ्गाधरः-क्षरणादित्यादि। अथ निमिना विदेहेन राजपिणा मधुराम्ललवणकटुतिक्तकषायक्षारा इति सप्त रसा इति यदुक्तं तच न। कस्मात् १ यतः क्षरणात् क्षारः स्यान्नासो रसो भवति। तहि किमिति? अत उच्यतेद्रव्यम्, भस्मीभूतद्रव्यारब्धखात्। यतस्तदनेकरसद्रव्यभस्मसमुत्पन्नमनेकरसम्। किं किं रसमिति ? अत उच्यते-कटुलवणभूयिष्ठम्, कथं विज्ञायते ? अनेकेन्द्रियार्थसमन्वितम् रूपरसस्पर्शगन्धादियुक्तम्, तस्माद् द्रव्यम् । नन्वेवं तत्स्थस्तु कटुलवणभूयिष्ठो यो भावः स खलु मधुरादिभ्यः षड्भ्योऽतिरिक्तत्वादपरो रस एवेति । अत उच्यते-करणाभिनित्तमिति । करणात् क्रियातोऽभिनिव्वत्तते तद्भस्मीभूतद्रव्यात् तस्मात् तत्स्थोऽपि कटुलवणभूयिष्ठो यो भावः सोऽपि तत्करणादेवाभिनित्तते। न तु मधुरादिवत् प्रसिद्धद्रव्यप्रादुर्भावे। तस्मान्मधुरादिन्यूनकटुलवणभूयिष्ठानेकरसमेलनेन कृत्रिमो रसो मधुरादिभ्यः षड्भ्योऽतिरिक्तः। यथा सैन्धवनिम्बादिमेलनाद रसो नातिरिक्त इति। __ अथ धामार्गवेग बडिशेन मधूराम्ललवणकटुतिक्तकपायक्षाराव्यक्ता इत्यष्टौ रसा इति यदुक्तं तन्न। कस्मात् ? क्षारो यथा नातिरिक्तो रसस्तद् दर्शितम् । अव्यक्तस्तु रसो यथा नातिरिक्तस्तथोच्यते॥१४॥ ग्रहणेनानुक्ता अपि तीक्ष्णमृद्वादयो न रसाः, किन्तु, द्रव्यगुणाः पृथगेवेति दर्शयति। क्षरणादधोगमनक्रियायोगात् क्षारो द्रव्यं, नासो रसः, रसस्य हि निष्क्रियस्य क्रियानुपपन्नेत्यथः, क्षरणञ्च क्षारस्य पानीययुक्तस्याधोगमनेन, वदन्ति हि लौकिकाः-"क्षारं स्रावयामः" इति, शास्त्रञ्च "छिला च्छित्त्वाशयात् क्षारः क्षारत्वात् क्षारयत्यधः” इति। हेत्वन्तरमाह-द्रव्यं तदनेकरसोत्पन्नमित, अनेकसेभ्यो मुककापामागांदिझ्ध उत्पन्नमनेकरसोत्पन्नम्, यतश्चानेकरसोत्पन्नमत एवानेकरसं, कारणगुणानुविधायित्वात् कार्यगुणस्येति भावः ; अनेकरसत्वञ्चाह--- कटुकलवणभूष्टिमिति भूयिष्टशब्देनाप्रधानरसान्तरसम्बन्धोऽस्तीति दर्शयति ; हेत्वन्तरमाहअनेकेन्द्रियार्थसमन्वितमिति,-क्षारो हि स्पर्शेन गन्धेन चन्वितः, तेन द्रव्यम् ; रसे हि गुणे न स्पर्शो नापि गन्ध इति भावः ; हेत्वन्तरमाह-करणाभिनिर्वृत्तमिति, करणेन भस्मस्रावादिनाऽभिनिर्वृत्तं कृतमित्यर्थः, न रसोऽनेन प्रकारेण क्रियत इति भावः ॥ १२-१४॥
For Private and Personal Use Only