________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२६श अध्यायः ]
सूत्रस्थानम् । तेष्येषु द्रव्यसंज्ञकेषु गुणा गुरुलघुशीतोष्णस्निग्ध
रुक्षाः ॥ १३ ॥
१५
सौरभ पूतिविस्रादिभेदात् । इत्येवं द्रव्यगुणयोः सजातीयारम्भकत्वं साधम्म्य द्रव्याणि द्रव्यान्तरमारभन्ते गुणाश्च गुणान्तरम् । कर्म च कर्मासाध्यं न विद्यते । विक्रियमाणं हि स्वतस्तत्तद्वाय्वादीनां क च परस्परं मिश्रीभूतं स्वविरोधिकमन्तरं सजातीयं विजातीयं वा चिन्त्यमचिन्त्यमारभते, यत् उच्यते- -- प्रभाव इति । कणादेनोक्तं " तस्मिन् पञ्चमहाभूत विकारे द्रव्ये मधुरादयो रसा आश्रिता अतो न भौमो रस आप्यो वा तैजसो वाड्थ वायव्यो वान्तरीक्षो वेति” ।। १२ ।।
गङ्गाधरः -- तेष्वाश्रयेष्वित्यादि । अथ वाय्र्योविदराजपिणा गुरुलघुशीतोष्णस्त्रिग्यरुक्षा इति षड़ रसा इति यदुक्तं तदपि न । कस्मात् ? यतस्तेषु आश्रयेषु पञ्चमहाभूत विकारेषु द्रव्येषु गुणा गुरुलध्वाद्याः । गन्धतन्मात्रादिपृथिव्यादिस्था अनभिव्यक्ता ये गुर्व्वादयो रसातिरिक्ताः प्रकृतिभूता गुणास्तेषां पञ्चभूतान्योन्यानुप्रवेशात् कार्य्या अभिव्यक्ता गुर्व्वादयो गुणा न तु रसाः, रसानारव्यत्वात् | आदिशब्देन मन्दतीक्ष्णमृदुकठिन श्लक्ष्णख रविशद पिच्छिलस्थूलसूक्ष्मस्थिरसरसान्द्रद्रवाः । शब्दादयश्च ॥ १३ ॥
For Private and Personal Use Only
शब्दोऽधनार्थः, स च प्रकृत्यादिभिः प्रत्येकं योज्यः, प्रकृतिवशा यथा - मुद्राः कपाया मधुरा सन्तः प्रकृत्या लघवः, एतद्धि लाघवं न रसवशं, तथा हि सति कषायमधुरत्वाद् गुरुत्वं स्यात्; विकृतिवशञ्च व्रीहेर्लाजानां लघुत्वं तथा सक्त सिद्धपिण्डकानाञ्च गुरुत्वम्, विचारणा विचारो द्रव्यान्तरसंयोग इत्यर्थः । तेन, विचारणावशं यथा-मधुसर्पिषी संयुक्त विषम्, तथा विपञ्चादयुक्तः स्वकार्यव्यतिरिक्तकार्य्यकारि । देशो द्विविधो भूमिरातुरा; ; तत्र भूमौ 'श्वेतकपोती च वल्मीकाधिरूदा विषहरी ', तथा “हिमवति भेषजानि महागुणानि भवन्ति"; शरीरदेशे यथा --- “ सक्थि मांसाद् गुरुतरं स्कन्धक्रोइशिरस्पदाम्" इत्यादि कालवशन्तु यथा मूलकमधिकृत्योक्तं--“तद्वालं दोषहरं वृद्धं त्रिदोषम्" तथा "यथत्तु पुष्पक उमाददीत इत्यादि ; अत्र चैकप्रक्ररणोक्ता येऽनुक्तास्ते चकारात् स्वभावादेरन्तर्भावणीयाः, यदुक्तम्- “चरः शरीरावयवाः स्वभावो धातवः क्रियाः । लिङ्गं प्रमाणं संस्कारो मात्रा चास्मिन् परीक्ष्यते । तत्र, चरशरीरावयवधातूनां देशेन ग्रहणं, मात्रा विचारे प्रविशति शेषं स्वभावे, तयो रसविमाने वक्ष्यमाणञ्च अत्राप्रविटमाहारविशेपायतनमन्तर्भावणीयं यथासम्भवम् ; स्निग्धरुक्षाद्या इत्यत्र आदि