________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६१४
चरक-संहिता। [ आत्रेयभद्रकाप्यीयः स्वादुः स्वादुताभक्ति * द्वौ हिताहितौ च प्रभावौ। पञ्चमहाभूतविकारास्त्वाश्रयाः प्रकृतिविकृतिविचारणा देशकालवशाः ॥ १२ ॥
हिरण्याक्षेणापि चखारो रसा इति यदुक्तं तत् न। कस्मात् ? यतः स्वादुः हितश्च स्वादुरहितश्चास्वादुहितश्चास्वादुरहितश्चेत्येतेषु स्वादुः खलु तेषां मधुरादीनां पण्णां रसानां स्वादुता आखादनं भक्तिः। हिताहितौ द्वौ प्रभावी तेषामचिन्त्यशक्ति विशेषौ तस्मात् न ते चखारो रसा इति । ___ कुमारशिरसा भरद्वाजेन च भौमादिभेदेन पञ्च रसा इति यदुक्तं तत् न। कस्मात् ? यतः पञ्चभूतविकाराः खलु कार्यभूतद्रव्याणि भौमान्याप्यानि तेजसानि वायव्यान्यान्तरीक्षाणि। तेषां पप्णां रसानामाश्रया न तु रसा इति। ननु सोमगुणातिरेकात् मधुरो रसः। भूम्यग्निगुणभूयिष्टखादम्ल इत्यादुरत्या कथमाश्रयाः पाञ्चभौतिकद्रव्याणीति ? अत उच्यते-प्रकृतीत्यादि। प्रकृति विकृतिविचारणा देशकालवशाः। प्रकृतविकृतिविचारणा चेयम्-देशविशेषात् कालविशेषाच्च चेतनयोगात् सचेतनः पञ्चभिर्महाभूतेन्यू नातिरेकांशेन संयुक्तः काय्य द्रव्ये घटादावारभ्यमाणे वाय्वादीनां कर्मभिरन्योन्यानुप्रवेशादन्योन्य. गुणमेलनादन्योन्यक्रियामेलनाच्च विक्रियमाणाः प्रकृतयः पञ्चभूततद्गुणान सजातीयान् द्रव्यान्तरगुणान्तररूपान् विकारानारभन्ते। प्रकृतिराकाशः सुपिरादिकं विशिष्टमाकाशान्तरं वायुविशिष्टवाय्वन्तरं तेजो विशिष्ट तेजो. ऽन्तरमुदकं रसरक्तादिद्रवान्तरं पृथिवी मूर्तिम् । तेषाञ्च गुणाः शब्दादयो ये तेपां शब्दो दशविधं शब्दान्तरमारभते। षडजपेभगान्धारमध्यमपञ्चमधैवतनिषादकष्टाकष्टसाधारणभेदात् । स्पर्शश्व स्पान्तरं शीतोष्ण श्लक्ष्णखरादिभेदात् । रूपञ्च विशिष्ट रूपान्तरं लोहितशुक्लकृष्णनीलपीतारुणादिभेदात्। रसश्च विशिष्ट रसान्तरं मधुरामललवणकटुतिक्तकषायभेदात् । गन्धश्च विशिष्टं गन्धान्तरं तदाधारयोर्द्रन्ययोर्मिश्रीभावादिति बोद्धव्यम् । साधारणमिति साधारणकार्य योगित्वम् ; भक्तिरितीच्छेत्यर्थः, तेन, यो यमिच्छति स तस्य स्वारस्वादुरितर इति पुरुषापेक्षी धम्मो न रसभेदकार्यावित्यर्थः । पञ्चमहाभूतेत्यादौ 'तु'शब्दोऽवधारणे, तेन आश्रया एव न रसा इत्यर्थः ; किम्भूता भौमादयो भूतविकारा आश्रया इत्याह-प्रकृतिविकृतिविचारणा देशकालवशा इति,
* स्वाद्वस्वाइतेति वा पाठः।
For Private and Personal Use Only