________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२६ अध्यायः !
सूत्रस्थानम् ।
१३
छेदनोपशमने द्वे कम्मणी । तयोर्मिश्रीभावात् साधारणत्वम् ।
रसा इत्युवाच । न खभिव्यक्तः सन्नेको रसो न वा द्वौ रसौ न च त्रयो रसा न च चत्वारो रसा नव पञ्च रसा न च गुरुत्वादयः पड् रसाः न च सप्त रसा नैवाष्टौ रसा नाप्यपरिख्येया रसाः । न च स पुनरुदकादनन्य इति । कस्मादिति ? अत उच्यते- तेपामित्यादि । यो भावोऽभिव्यक्तः सन् रसनग्रा यो योsर्थो भवति रसनग्राह्यः स सोऽर्थो नोदकादनन्यः, तेषां पण्णां रसानां योनिरुत्पत्तिस्थानमुदकम् । वक्ष्यते ह्यत्र - "सौम्याः खल्वापोऽन्तरीक्षप्रभवाः प्रकृतिशीता लध्व्यश्चाव्यक्तरसास्वन्तरीक्षाद्भ्रश्यमाना भ्रष्टाश्च पश्चमहाभूतगुणसमन्विता जङ्गमस्थावराणां भूतानां मूर्तीरभिप्रीणयन्ति । तासु मूर्त्तिषु पड़ भिमूच्छेति रसाः । तेषां पण्णां रसानां सोमगुणातिरेकात् मधुरो रसः । भूम्यग्निभूयिष्ठत्वादम्लः | तोयानिभूयिष्ठवल्लवणः । वाय्वग्निभूयिष्ठत्वात् कटुकः । वाय्वाकाशातिरिक्तवात् तिक्तकः । पवनपृथिव्यतिरेकात् कषायः ।” इत्येवमेषां पप्णां रसानामभिव्यक्तिः पदत्वेनैव नातिरिक्तत्वेन । तस्मात् षटत्वमुपपन्नं न्यूनातिरेकविशेन्महाभूतानाम् । भूतानामिव स्थावरजङ्गमानां नानावर्णाकृतिविशेषः । पड़ऋतुकत्वाच्च कालस्योपपन्नो महाभूतानां न्यूनातिरेकविशेष इति । तत् पाञ्चभौतिकीषु मूर्त्तिषु यत् सोमगुणायतिरिक्तत्वे मधूरादयोऽभिव्यज्यन्ते तत् तेषु पञ्चसु महाभूतेषु खलु यदुदकमव्यक्तरसं तस्मादुदकादेव तस्याव्यक्तो रसो भूतान्तरसंयोगे सति स्थूलः सन् मधुरादिभावम् आपन्नोऽभिव्यज्यते इति तेषां रसानां योनिरुदकम् । ( तेषां योन्यव्यक्तरसाश्रयत्वात् ) न पुनरुदकादनन्यो रस इति ।
अत एव द्वां रसाविति यत् शाकुन्तेयेनोक्तं तन्न । कस्मात् १ यतस्तेषां षण्णां रसानां द्वे कम्मणी च्छेदनोपशमने । तत् परसाश्रयद्रव्याणि हि अम्ललवणकटुभिः शारीरक्के दादीनि च्छिन्दन्ति मधुरतिक्तकषायैरुपशमयन्तीति तेरसौ न भवतः ।
नितरां त्रयो रसा इति यत् पूर्णाक्षेणोक्तं तन्न । साधारणत्वं हि तयो - इछेदनीयोपशमनीययोमिश्रीभावाद् भवति तदपि तेषां कम्मे । तस्मात् न यो रसा इति ।
प्रत्यक्ष एवेतिभावः । क्षितिव्यतिरिक्तमुदकमेव यथा रसयोनिस्तथा "रसनार्थो रसस्तस्य " इत्यादी विवृतमेव दीर्घजीवितीये; तयोर्मिश्रीभावादिति, कर्मणोरमूर्त्तयोर्मिश्री भावानुपपत्ती
११५
For Private and Personal Use Only