________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२
चरक-संहिता ।
[ आत्रेयभद्रकाप्यीयः
अष्टौ रसा इति वड़िशो धामागवः । मधुराम्ल लवण
कटुकतिक्तकषापचाराव्यक्ताः ॥ १० ॥
अपरिसंख्येया रसा इति काङ्कायनो वाह्लीकभिषक्, आश्रयगुणकम्मसंस्कारविशेषाणामपरिसंख्येयत्वात् ॥ ११ ॥
पड़ेव रसा इत्युवाच भगवान् पुनव्वसुमधुराम्ललवणकटुतिक्तकषायाः । तेषां परणां रसानां योनिरुदकम् ।
।
गङ्गाधरः - अष्टावित्यादि । अथ वड़िशो धामार्गवः खलु यो भावोऽभिव्यक्तः सन् रसनग्राह्योऽर्थो भवति स रस एक एवेति सत्यम् । अभिव्यक्तस्तु सन् यो रसनग्राद्योऽर्थो भवति स खलु मधुरादिपूर्व सप्तविधोऽव्यक्तश्च दृत्यष्टधाऽभिव्यज्यते । तस्मादष्टौ रसा इत्युवाच ॥ १० ॥
गङ्गाधरः - अपरिसङ्ख्या इत्यादि । अथ काकायनो वाह्रीको भिषक् खलु यो भावोऽभिव्यक्तः सन् रसनग्राद्योऽर्थो भवति स रस एक एवेति सत्यम् । यस्तु अव्यक्तो रसनग्राद्योऽर्थः स आश्रयादिविशेषाणामपरिसङ्क्षे त्रयत्वेन अपरिसंख्येयतयाभिव्यज्यते । अभिव्यक्ताश्चाश्रयगुणकर्म संस्कारविशेषाणाम् अपरिसंख्येयत्वादपरिसंख्येया रसा इत्युवाच । रसानामाश्रया द्रव्याणि खलु अपरिसंख्येयानि न समानरसानि गुणास्तेषां समानाधिकरणा गुरुत्वाद यस्तैश्च विभिन्नाः । कर्माणि च धातुवर्द्धनादीनि समानाधिकरणान्यपरिसंख्येयानि । संस्कारः पुनः करणं रसान्तरकरणद्रव्य क्रियान्तरेण रसान्तरभावा अपरि
या इति ॥। ११ ॥
गङ्गाधरः -- षड़ेवेत्यादि । भगवानात्रेयः पुनर्व्वसुः खलु नवानां महर्षीणां वचनं श्रुला यो व्यक्तो भावोऽभिव्यक्तः सन्: रसनग्राह्योऽर्थो भवति स रस एक एवेति सत्यम् । अभिव्यक्तस्तु सन् रसनग्राह्यो योऽर्थो भवति स खलु मधुराम्ललवणकटुतिक्तकषायभेदेन षड्विध एवाभिव्यज्यते । तस्मात् पट्टेव
भेदस्तु - एकस्यामपि मधुरजाताविक्षुगुडादिगतः प्रत्यक्षमेव भेदो दृश्यते स्वसंवेद्य एव यदुक्तं - "इक्षुक्षीरगुड़ादीनां माधुर्य्यस्यान्तरं महत् । सरस्वत्यापि शक्यते” ॥ ३–११ ॥
चक्रपाणिः - सिद्धान्तं पुनर्व्वसुवचनत्वेनाह-पड़ेवेत्यादि । पूर्ध्वपक्षोक्तरसैकत्वादिव्यवस्थामाह - तेषां षण्णामित्यादि । योनिराधारकारणं, कार्यकारणयोश्च भेदात् सिद्ध उदकाद रसभेदः
For Private and Personal Use Only
स तु संस्वादभेदः
भेदस्तथापि नाख्यातु