________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१०६ . चरक-संहिता।
यज्जापुरुषीयः तत्र श्लोकः। शरीररोगप्रकृतौ मतानि तत्वेन चाहारविनिश्चयाय * । उवाच यजःपुरुषादिकेऽस्मिन् मुनिस्तथाग्राणि वरासवांश्च ॥३५ इत्यग्निवेशकृते तन्त्र चरकप्रतिसंस्कृते श्लोकस्थाने
यजःपुरुषीयो नाम पञ्चविंशोऽध्यायः ॥ २५ ॥ गङ्गाधरः-तत्र श्लोक इत्यादि। शरीररोगेत्यादिनैकेनाध्यायाः शरीरप्रकृतौ रोगप्रकृती चोपादानकारणे तत्त्वेन मुनीनां मतानि आहारविनिश्चयाय यानि हिताहितानि तथाग्राणि श्रेष्ठतमानि तथा वरासाश्चास्मिन् यज्जःपुरुषादिकेऽध्याये मुनिरात्रेयपुनर्वसुरुवाचेति ॥३५॥
अग्नीत्यादि। सव्व पूर्ववत् । इति श्रीगङ्गाधरकविरत्नकविराजकृते चरकजल्पकल्पतरौ सूत्रस्थानीय
पञ्चविंशयज्जःपुरुषीयाध्यायजल्पाख्या पश्चविंशी शाखा ॥२५॥
आदिग्रहणाद, द्रव्यस्वभावेतिकर्तव्यतासंग्रहणम् ; तत्तत्कार्यमिति देशकालशरीरदोषादिभिन्नं हितत्वम्। मनःशरीरेत्यादिना गुणकथनं युक्तया पीतस्यासवस्य ज्ञेयम् ॥ ३०-३५॥
इति चरकचतुरानन-श्रीमच्चक्रपाणिदत्तविरचितायाम् आयुर्बेददीपिकायां सूत्रस्थान
व्याख्यायां यजःपुरुषीयो नाम पञ्चविंशोऽध्यायः ॥२५॥
* आहारविनिश्चयो य इति पाठान्तरम् ।
For Private and Personal Use Only