SearchBrowseAboutContactDonate
Page Preview
Page 915
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ६०४ चरक संहिता | विंशतिर्भवन्ति । पद्मोत्पलनलिन कुमुद-सौगन्धिकपुण्डरीकशतपत्रम वूक प्रियङ्ग, धातकीपुष्पैर्दश पुरपासवा भवन्ति । इक्षुकाण्डेदिवबालिका पुण्ड्रकचतुर्थाः काण्डासवाः । पटोल ताडकपत्रासवौ द्वौ भवतः । तिल्वकलोध लबा लुकक्रमुकचतुर्थास्त्वगासवा भवन्ति । शर्करासव एक एवेति ॥ ३१ ॥ [ यजःपुरुषीयः एवमेषामासवानां चतुरशीतिः परस्परेणा संसृष्टानामासवद्रव्याणामुपदिष्टा भवन्ति । एषामा सवानामासुतत्वादासव संज्ञा । For Private and Personal Use Only पद्मोत्पलेत्यादि । पद्मादीनां धातक्यन्तानां दशानामेकैकस्य पुष्पैः कृता आसवाः पुष्पासवा दश । पद्ममरविन्दं कमलम् । उत्पलं नीलोत्पलम् | नलिनं स्वल्पदलपद्मम् । तच्चाष्टदलं द्वादशदलश्चारुणवर्णम् । कुमुदं श्व ेतपुष्पनाली पुष्पम् । सौगन्धिकं श्वेतपुष्पं कहारम् । रक्तपुष्पञ्च । पुण्डरीकं श्वेतपद्मम् । शतपत्र मरुणवर्णशतदल पुष्पपद्मम् । प्रियङ्गु वृक्षस्य पुष्पम् | इक्ष्वत्यादि । इक्षुप्रभृतीनां चतुणों काण्डानामासवाश्चत्वारः । इक्षुः कृष्ण इक्षुः । बहुधा | काण्डेक्षुः कठिनोऽल्परस इक्षुः खालिया इति लोके । इक्षुबालिका लटा । पुण्ड्रकः श्वेतेक्षुः । पटोलेत्यादि । द्वौ पत्रात्रौ । पटोलपत्रस्य ताडपत्रस्य च । ताजस्तालपत्रवदनुहत्पत्रवृक्षः । तिल्वकेत्यादि । तिल्वकादीनां चतुणां त्वचा कृता आसवाश्वत्वारः । तिल्वकः श्वेतलोधः । लोध्रो रक्तलोध्रः । एलवालुक ऍलेयवृक्षः । क्रमुको गुवाकवृक्षः । शकैरासव एक एवेति । इति चतुरशीतिरासवाः ॥ ३१ ॥ गङ्गाधरः - एषामासवसंज्ञा खल्वासुतत्वात् कालान्तरेण सन्धानभावात् । नन्वेषां चतुरशीतेर्द्रव्याणामेव किमासवा भवन्ति नान्येषामिति ? अत उच्यते एवमेषामित्यादि । परस्परेणासंसृष्टानामेषामेकैकेषामासवानां द्रव्याणां चतुरfefret अपामार्गः, शुक्तिबंदरी पद्म सरक्तमष्टदलपद्मम् नलिनं श्वेतमष्टदलपद्मम्, पुण्डरीकं श्वेतशतपत्रपद्मम्; शतपत्रन्त्वरुणम् । इक्षुशब्दप्राप्तस्यापि पुण्ड्रकस्य पुनरभिधानमासवं प्रति तस्य प्राधान्यख्यापनार्थम् क्रमुकं गुवाकम्; तिल्वकः शावरलोध्रः । आसुतत्वादिति सन्धानरूपत्वात् । द्रव्यसंयोगविभाग इत्यादौ 'एषाम्' इतिपदेन प्रत्येकं धान्यादिद्रव्यकृता आसवा उक्तः, तेषाञ्च विभागोऽनुपपन्न एकरूपत्वादिति, तन्न, तेपामपि स्वजातीयद्रव्यविभागस्य * सौगन्धिकं नीलोत्पलाकारवर्णमुत्पलं सुगन्धिचेति डल्लणः ।
SR No.020145
Book TitleCharak Samhita Part 01
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1204
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy