________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२५श अध्यायः]
सूत्रस्थानम् ।
६०३ तृणशून्यपरूपकाभयामलकमृगलण्डिकाजम्बीर:*कपित्थकुवलबदरकर्कन्धपीलुपियालपनसन्यग्रोधाश्वत्थप्नक्षकपीतनोडम्बराजमोदाशृङ्गाटकशविनीफलासवाः षडूविंशतिर्भवन्ति। विदारिगन्धाश्वगन्धाकृष्णगन्धाशतावरीश्या मात्रिवृदन्तीद्रवन्ती-विल्वोरुबूकचित्रमूलैरेकादश मूलासवा भवन्ति । शालप्रियकचन्दनस्यन्दन-खदिर-कदरसप्तपर्णाश्वकर्णार्जुनाशनारिमेद-तिन्दुककिर्णािहशमीशक्तिपत्रशिंशशिरीषवजुलधन्वनमधूकसारासवा
धन्वनो वृक्षविशेषः। राजादनं पियालभेदः। तृणशून्या (न्यं) केतकी तस्याः फलासवः। मृगलण्डिका विभोतकी तस्याः फलम् । कुवलं हत्फलबदरों। बदरं स्वल्पकलयदरो। कन्धः शृगालकोली। पीलु उत्तरापथिक गुड फलम् । प्लक्षः पकेटो। अजमोदा यमानी। शङ्खिनी चोरपुष्पीति । विदारिगन्धेत्यादि। विदारिगन्धादिचित्रमूलान्तरेकादशभिरेकैकस्य मूलेन कृत आसव इति मूलासवा एकादश भवन्ति । विदारिगन्धा शालपर्णी। कृष्णगन्धा शोभाञ्जनः । श्यामा श्याममूला त्रित् । दन्ती नागदन्ती । द्रवन्ती क्षुद्रमला दन्ती। एपां मूलानि । शाळेत्यादि । शालादीनां मधुकान्तानां सारैरासवा विंशतिभवन्ति। शालस्त्रिविधः। तत्र हदक्षः शाल इह विवक्षितः। प्रियकः प्रियक्षः । चन्दनं रक्तचन्दनम् । स्यन्दनस्तिनिशक्षः। खदिरो वयोलः । कदरः श्वेतखदिरः । सप्तपणेः सप्तच्छदः । अश्वको हत्पत्रहव. शालवृक्षः। अज्जुनः स्वनामख्यातः। अशनः पीतशालः। अरिमेदो विट्खदिरः। किणिहिः स्वनामख्यातो वृक्षविशेषः सारवान् न खपामागेः साराभावात् । शुक्तिपत्र बदरीक्षः। वजुलोऽशोकक्षः। धन्वनो धामनीवृक्षः ।
ऽपरिसंख्येयाः स्युः ; सौवीरं निस्तुपयवकृतं, मैरेयं सुरासवकृता सुरा, मेदकः श्वेतसुरा जगलाख्या धान्याम्बु कालिक, तृणशून्यं केतकी, मृगलिण्डिका विभीतकम्, कुवलमिति स्थूलवदरी, कर्कन्धूः शृगालबदरी, कदरः श्वेतखदिर:, अश्वकर्णः शालभेदः, अरिमेदो विटखदिरः,
-
-
* जम्बीरेत्यत्र जाम्बवेति वा पाठः ।
For Private and Personal Use Only