________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१०२
चरक संहिता।
यजःपुरुषीयः तमुवाच भगवानात्रं यः। धान्यफलमूलसारपुष्पकाण्डपत्रत्वचो भवन्त्यासक्योनयोऽग्निवेशाष्टौ संग्रहेण शर्करानवमीकाः। तास्वेव द्रव्यसंयोगकरणतोऽपरिसंख्येयासु यथापथ्यतमानामासवानां चतुरशीतिं निबोध ॥ ३० ॥
तद्यथा सुरासौवीरकतुषोदकम रेयमेदकधान्याम्लाः षड् धान्यासवा भवन्ति। मृद्रीकाकाश्म>खजूरधन्वनराजादनइदानीमासवद्रव्याणामनतिसंक्षेपेणोपदिश्यमानमनपवादं लक्षणं शुश्रूषाम इत्यग्निवेश उवाच ॥२९॥
गङ्गाधरः-ततस्तमुवाचात्रेयः । धान्यफलेत्यादि । धान्यादयोऽष्टावासवानां योनयो भवन्ति। शकरानवमीकाः शकरा नवमी योनिर्यास्वष्टसु योनिषु ताः शकरानवमीकाः। धान्यादिवदोषधिजात्यभावाच्छर्करायाः पृथक् अभिधानं, धान्यस्य तृणफलखेन फलस्य वृक्षजफलविवक्षाशापनार्थ पृथग्वचनम् । तास्वेव नवस्वासवयोनिषु द्रव्यसंयोगकरणतः पुनरपरिसङ्घा यासु योनिषु पथ्यतमानामासवानां चतुरशीतिं योनीः निबोध ॥३०॥
गङ्गाधरः----सुरेत्यादि। सुरादयः पड् धान्यासवाः । सुरा तन्डुलकृता, सौवीरकं निस्तु षयवकृतं, तुषोदकं सतुषयवकृतं, मैरेयं सुराकृतसुरा, मेदको जगलाख्या श्वेतसुरा, धान्याम्लं काञ्जिकमिति। मृद्वीकादीनां शविन्यन्तानां पड्विंशतः फलानामेकैकेपामासवाः पड्विंशतिभवन्ति । विषस्य तिलं दद्यात्' इत्यादि ; एवमन्यदप्यूह्यम् ; यस्मादेवमेकान्तमपथ्यत्वमनिश्चितं, प्रायोवादपथ्यता तु निश्चिता, तस्मात् स्वभावो निईिट इति,-पथ्यानां रक्तशम्ल्यादीनाम अपथ्यानाञ्च यवकादीनामित्यर्थः, स्वभावः प्रकृत्या पथ्यताऽपथ्यता च, तथा मानादिराश्रय इति निद्दिष्ट इति सम्बन्धः, मात्रादिर्मात्राकालक्रियादिः ; आश्रय इति पथ्यत्वापथ्यत्वयोः, मात्रादीन्याश्रित्य भावानां पथ्यत्वापथ्यत्वञ्च पारमार्थिकं भवतीत्यर्थः ; उभयमिति स्वभावो मात्रादिश्र ॥२७-२१॥ ___ चक्रपाणिः- इदानीमनवाधिकारादासवेष्वनन्तेषु य आसवा अग्रयास्त उच्यन्ते। धान्यादी. न्येकत्वेन पठित्वा पृथक् शर्करां पठन्ति, धान्यादीनामवान्तरजातिमत्त्वात्, शर्करायास्त्ववान्तरजातिर्नास्ति ; तासु शर्करा नवभ्यासवकारणतया श्रूयते ; मधुशर्करा तु मध्वन्तरनिविष्टैव ; मध तु नासवयोनितया पृथक् पठितम्, येन तत्कृतस्यासवस्य धान्यसम्बन्धत्वात् धान्यासवेनैव ग्रहणम् ; एवं गौड़ासवादिष्वपि बोद्धव्यम्। द्रव्यञ्च संयोगश्च करणञ्च द्रव्यसंयोगकरणम, ततो
For Private and Personal Use Only