________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२५श अध्यायः
सूत्रस्थानम् ।
१०१ मात्राकालक्रियाभूमि-देहदोषगुणान्तरम् । प्राप्य तत्तद्धि दृश्यन्ते ते ते भावास्तथा तथा ॥ तस्मात् स्वभावो निर्दिष्टस्तथा मात्रादिराश्रयः । तदपेक्ष्योभयं कर्म प्रयोज्यं सिद्धिमिच्छता ॥२८॥
तदात्र यस्य भगवतो वचनमनुनिशम्य पुनरपि भगवन्तमात्र यमग्निवेश उवाच---यथोदेशमभिनिर्दिष्टः केवलोऽयमों भगवता श्रुतस्त्वस्माभिः। आसवद्रव्याणामिदानीमनपवादं लक्षणमनतिसंक्षेपेणोपदिश्यमानं शुश्रूषाम इति ॥ २६ ॥
गङ्गाधरः-मात्रेत्यादि। ये ये लोहितशाल्यादयः श्रेष्ठखेनोक्तास्ते ते भावा मात्राकाल क्रियाभूमिदेहदोषगुणावस्थान्तरं तत्तत् प्राप्य तथा तथा भवन्ति । न तु तत्तद्गुणान्तरव्यतिरिक्तापरभावमापना हिता अहिता भवन्ति अहिता हिता भवन्ति । तस्माद्धिताहितखस्वभावो लोहितशाल्यादीनां निद्दिष्टः। तत्र तथा हितसाहितत्वयोराश्रयो मात्रादिर्मात्राकाल क्रियाभूमिदेहदोषावस्थान्तरमिति तन्मात्राद्याश्रयं हिताहितमुभयमपेक्षा सिद्धिमिच्छता चिकित्सायां पानाशनादिकं कर्म प्रयोज्यमिति ॥२८॥
गङ्गाधरः-इत्येवमनपवादं हिताहितलक्षणं श्रुखाग्निवेशः पुनर्यदपृच्छत् तदाह -तदात्रेयेत्यादि। भगवता यथोद्देशमयं केवलः कृत्स्नोऽर्थोऽभिनिद्दिष्टः । द्वयमेतत् पठन्ति, वदन्ति च--"यदेववं लक्षणं स्यात्, तदा ज्वरादिषु तिक्त भेषजं मनसोऽप्रियत्वेन म पथ्यं स्यात, एतच्चानुमतमेव,-यद् ज्वरे तिक्तप्रयोगस्य तदात्वे न मनसोऽनुकूलरवं, न चैतावता शरीरं प्रत्यपथ्यत्वं स्यात्, अतः यन्मानं मनोऽनुकूलत्वं मानसविकाराकर्तृत्वात् तद व्यपदेश्यमेव ; किंवा तावन्मात्र मनोऽननुकूलत्वं मानसविकारकत्वादस्यपदेश्यमेव ; तदेतदपथ्यत्वं किमाहाराचाराणां नियतमस्ति ? नेत्याह-तच्चेत्यादि । नियतं निश्चितमिदमप्रियमेव सर्वदेदमपथ्यमेव सर्वदेत्येवंरूपं किञ्चिन्नास्तीत्यर्थः । कुतो नास्तीत्याह-मात्रेत्यादि। गुणान्तरशब्दो मात्रादिभिः सम्बध्यसे, तत्तदिति मात्रादिगुणान्तरम्, ते ते इति हिताहिताहाराचाराः, तथा तथेति हितोक्ता अपि हिता अहिताश्च, तथाऽहितोक्ताश्चाहिता हिताश्च ; एवं प्रियमपि मधुरादि अप्रियम्, तिक्ताद्यप्रियमपि प्रियम् । अत्रोदारणं यथा-पथ्यं तावद् घृतम्, तदतिमात्रमपथ्यं स्यात् काले च वसन्तेऽपथ्यम्, संस्कारेण च विरुद्ध द्रव्यसंस्कृतमपथ्यम्, भूमौ चानुपायामपथ्यम्, एवं देहेऽतिस्थूले, एवं दोपे कऽपथ्यम् ; अपथ्यमपि विप मात्रादिना हितं स्यात्, यथा 'उदरे
For Private and Personal Use Only