________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१०० चरक-संहिता।
[यजःपुरुषीयः वातपित्तकफानाञ्च यदयत् प्रशमने हितम् । प्राधान्यतश्च निर्दिष्ट यदव्याधिहरमुत्तमम् ॥ २५ ॥ एतन्निशम्य निपुणश्चिकित्सां संप्रयोजयेत् । एवं कुर्वन् सदा वैद्यो धर्मकामौ समश्नुते ॥ २६ ॥ पथ्यं पथोऽनपेतश्च यच्चोक्तं मनसः प्रियम् ।
यच्चाप्रियमपथ्यञ्च नियतं तन्न लक्ष्यते ॥ २७॥ काय्यकत्ते खेऽप्युदाहृतम्। एवं वातपित्तकफानां प्रशमने यदय द्धितं प्राधान्यतस्तनिर्दिष्टम्। तथा व्याधिहरं यदुत्तमं तदपि निद्दिष्टम् । इति ॥ २३-२५ ॥
गङ्गाधरः-एषां विज्ञानप्रयोजनमाह-एतदित्यादि। निपुणो वैद्य एतदुत्तमं द्विपञ्चाशदुत्तरं शतं निशम्य चिकित्सायां प्रयोजयेत् । एवञ्च कुर्वन् चिकित्सायामेषां प्रयोगं कुर्वन् वैद्यो धर्मश्च कामञ्चाश्नुते ॥२६॥
गङ्गाधरः-ननु हितं पथ्यमाहितमपथ्यं कथमभिधीयते इति ? अत आहपथ्यमित्यादि। पथः शारीराणां वातपित्तकफरसरक्तादीनां धातूनां सञ्चारमार्गात् स्रोतोरूपादनपेतमनपगतम्। सर्चस्रोतोगतमपायकरं न भवति । यच्च मनसः प्रियं सुखानुभवकरं तत् पथ्यं कट्टाधास्वादनेन मनसोऽप्रियवेऽपि परिणामे सुखजनकखान मनसोऽप्रियं भवति । यच्चापाततः परिणामे च नियतं मनसोऽप्रियमपथ्यश्च तन्न लक्ष्यते ॥ २७॥ वातपित्तकफेभ्यश्चेत्यादौ "वस्तिर्वातहराणाम्' "विरेचनं पित्तहराणाम्” "वमनं श्लेष्महराणाम्' "आस्थापनं वातहराणाम्' इत्यादि ज्ञयम् । यद् व्याधिहरमिति "खदिरं कुष्ठहराणाम्" "पूष्करमूलं हिकाश्वासपार्श्वशूलानाहहराणाम्" इत्यादि ज्ञेयम् ; किंवा, "अवरस्वम्" इति पाठः, तदा, अवरत्वम् अत्यर्थानभिप्रेतकर्तृत्वम्, तच्च "रजस्वलागमनमलक्ष्मीमुखाणाम् इत्यादि ज्ञेयम् ; श्रेष्ठत्वज्यायस्त्वाभ्यां प्रशस्ताप्रशस्तकर्मणामपि ग्रहणं व्याख्येयम् ॥ २४-२६ ॥
चक्रपाणिः-सम्प्रत्युक्तस्य पथ्यस्य हितापरनाम्नो लक्षणमाह-पथ्यमित्यादि । पथः शरीरमार्गात् स्रोतोरूपादनपेतम्, अपेतमपकारकमनपेतमनपकारकमित्यर्थः, पथिग्रहणेन पथो वाह्यदोषा धातवश्व, तथा पथो निवर्त्तका धातवो गृह्यन्ते ; तेन कृत्स्नमेव शरीरं गृहीतं स्यात्, ततश्च शरीरानुपघाति पथ्यमिति स्यात् ; किंवा स्वस्थस्वास्थ्यरक्षणमातुरव्याधिपरिमोक्षश्चेति पन्थाः, तस्मादनेपेतं पथ्यम् । एवमपि मनोऽनुपधातित्वं न लभ्यत इत्याह-यञ्चोक्त मनसः प्रियमिति, मनसोऽतिप्रीत्याभिलषितं, तेन मनसो हितमिति प्रियार्थः । तेन प्रशमज्ञानाभीष्टत्वादयो गृह्यन्ते ; एतेन मन.शरीरानुपघाति पथ्यमिति पथ्यलक्षणमनपवादमुक्त स्यात् ; अन्ये तु पथ्यलक्षण
For Private and Personal Use Only