________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८६६ चरक-संहिता।
। यजःपुरुषोयः मिथ्यायोगो व्याधिकराणाम् । रजस्वलाभिगमनमलक्ष्मी-. मुखाणाम्। ब्रह्मचर्यमायुष्याणाम्। सङ्कल्पो वृष्याणाम् । दौम्मनस्यमवृष्याणाम्। अयथावलमारम्भः प्राणोपरोधिनाम्। विषादो रोगवर्द्धनानाम् । स्नानं श्रमहराणाम् । हषः प्रीणनानाम् । शोकः शोषणानाम् । निवृत्तिः पुष्टिकरणानाम् । तुष्टिः ॐ स्वामकराणाम् । अतिस्वप्नस्तन्द्राकराणम्। सर्वरसाभ्यासो बलकराणाम् । एकरसाभ्यासो दौर्बल्यकरणानाम्। गर्भशल्यमनाहार्याणाम् । अजीर्णमुद्धार्याणाम् । बालो मृदुभेषजीयानाम्। वृद्धो याप्यानाम्। गर्भिणी तोदणौषधव्यवायव्यायामवर्जनीयानाम् । अपथ्यानां श्रेष्ठतमः । मिथ्यायोगः स्नेहस्वेदादीनां सव्वेषां शोधनशमनादीनां कर्मणामयथावदयोगो व्याधिकराणां श्रेष्ठतमः । रजस्वलानीवभिगमनं व्यवायो-ऽलक्ष्मीमुखाणाम् अलक्ष्मीदोषकलिकलहाकालमरणादिदोषाणाम् । मुखानि साक्षात्कारणानि यानि तेषां मध्ये श्रेष्ठतमम् । ब्रह्मचर्य वाक्कायमनोभिमथुनवज्जेनमायुष्याणां श्रेष्ठतमम। सङ्कल्पो मनसा व्यवायार्थ वाभीष्टकामिन्यादिचिन्तादिकमै वृष्याणां श्रेष्ठतमः। दौम्नेनस्यमष्याणां श्रेष्ठतमम् । अयथावलमारम्भः प्राणोपरोधिनां श्रेष्ठतमः। विषादः सव्वेदा मनःखेदः रोगवढे नानां श्रेष्ठतमः । स्नानं श्रमहराणाम् । हर्षः प्रीणनानां श्रेष्ठतमः। शोकः शोषणानां श्रेष्ठतमः। नित्तिर्वाक्कायमनसा प्रवृत्तितो विरामः पुष्टिकरणानां श्रेष्ठतमा । तुष्टिः स्वप्नकराणाम्। पुष्टिरिति कचित् पठ्यते। अतिस्वप्नस्तन्द्राकराणाम् । सवरसाभ्यासो बलकराणां श्रेष्ठतमः । एकरसाभ्यासो दोब्बल्यकरणानां श्रेष्ठतमः। गर्भशल्यमनाहाय्यशल्यानां श्रेष्ठतमम्। अजीणमुद्धार्याणामुद्धरणीयानां श्रेष्ठतमम्। बालो मृदुभेषजीयानां श्रेष्ठतमः । वृद्धो याप्यानां कालयापनीयानां श्रेष्ठतमः । गर्भिणी प्रकृतिकरणादिविषमाशनम ; निान्दतव्याधिः श्वित्रकुष्ठादिः ; अलक्ष्मीमुखागामलक्ष्मीकारणानाम् ; मिथ्यायोगः सम्यगयोगादन्यस्त्रिविधो योगः, सङ्कल्पः स्त्रीसङ्गसङ्कल्पः, ज्वरो रोगाणामिति रुजा
* तुष्टिरित्यत्र पुष्टिरिति वा पाठः ।
For Private and Personal Use Only