________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२५श अध्यायः सूत्रस्थानम् ।
८६५ कराणाम्। मद्य सौमनस्यजननानाम् । मद्याक्षेपो धीतिस्मृतिहराणाम् । गुरुभोजनं दुर्विपाकानाम्। एकभोजनं सुखपरिणामकराणाम्। शुक्रवेगनिग्रहः पाण्ड्यकराणाम् । स्त्रीष्वतिप्रसङ्गः शोकराणाम् । परायतनम् * अन्नाश्रद्धाजननानाम् । अनशनमनायुष्कराणाम् + । प्रमिताशनं कर्षणीयानाम्। अजीर्णाशनं ग्रहणीदूषणानाम्। विषमाशनमग्निवैषम्यकराणाम्। विरुद्धवीर्य्याशनं निन्दितव्याधिकराणाम्। प्रशमः पथ्यानाम् । आयासः सर्वापथ्यानाम् । यामादृर्द्ध यामद्वयी रात्रिमहानिशा। तृप्तिराहारगुणानामाहारस्य कर्मणां श्रेष्ठतमा। वेगसन्धारणं मूत्रपुरीषादीनामनारोग्यकराणां श्रेष्ठतमम्, न तु धार्याणां वेगानां सन्धारणम् । मद्य यथामात्रं पीतं सौमनस्यस्य जननानां श्रेष्ठतमम्। मद्याक्षेपोऽतिमात्रमत्तता धीधृतिस्मृतिहराणां श्रेष्ठतमः। गुरुभोजनं गुरूणां द्रव्याणां मात्रया भोजनं दुव्र्विपाककराणां श्रेष्ठतमम् । एक भोजनं सुखपरिणामकराणां भोजनानां श्रेष्ठतमम्। शुक्रवेगनिग्रहः शुक्रवेगधारणं पाण्ड्यकराणां श्रेष्ठतमम् । स्त्रीष्वतिप्रसङ्गोऽतिमैथुनं शरीरस्य शोषकराणां श्रेष्ठतमम् । परायतनं परगृहं भोजने कर्तव्येऽन्नेष्वश्रद्धाजननानां श्रेष्ठतमम्। अनशनमुपवासोऽनायुण्कराणां श्रेष्ठतमम् । प्रमिताशनमल्पमात्रयाऽशनं कर्षणीयानां श्रेष्ठतमं कर्षणीयम् । अजीर्णाशनं सति चाजीणे भोजनं ग्रहणीनाडीदूषणानां श्रेष्ठतमम् । विषमाशनं कदाचिदल्पमात्रं कदाचिदतिमात्रमशनं अग्निवैषम्यकराणां श्रेष्ठतमम् । विरुद्धवीर्याणां द्रव्याणामशनं निन्दितव्याधिकराणां पामाविचर्चिकादिकराणां श्रेष्ठतमम् । प्रशमो मनःप्रवृत्तिजकामादिभ्यो निवृत्तिः पथ्यानां श्रेष्ठतमः। आयासः परिश्रमः सर्वेषाम् भोजनम्, अनेन सुखपरिणाममात्रमुच्यते, न द्वितीयान्नप्रतिषेधः क्रियते, एतेन द्विभॊजनेऽपि अव्याहताग्नितानिद्रादयः सुखपरिणामकारणं ज्ञयाः ; शोषकराणामिति शोषकारणानाम् ; पराघातनं बधस्थानं, बध्यमानप्राणिदर्शनाद्धि घृणया नान्ने श्रद्धा स्यात् । "यथा शितम्" इति केचित् पठान्त, तन्नातिसाधु ; प्रमिताशनमतीतकालभोजनम्, स्तोकभोजनं वा; विषमाशनं * पराघातनमिति चक्रः।
+ आयुषो हासकराणामिति पाठान्तरम् ।
For Private and Personal Use Only