________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८६४ चरक-संहिता।
[ यजःपुरुषीयः वातहराभ्यङ्गोपनायोगिनाम्। मधुकं चक्षुष्यवृष्यकेश्यकण्ठ्यवण्यबल्यविरजनीयरोपणीयानाम्। वायुः प्राणसंज्ञाप्रदानहेतूनाम्। अग्निरामस्तम्भशीतशूलो पनप्रशमनानाम्। जल स्तम्भनीयानाम्। मृदभृष्टलोष्ट्रनिर्वापितमुदकं तृष्णातियोगप्रशमनानाम्। अतिमात्राशनमामप्रदोषहेतूनाम्। यथान्यभ्यवहारोऽग्निसन्धुक्षणानाम् । यथासात्म्यं चेष्टाभ्यवहारौ सेव्यानाम्। कालभोजनमारोग्यकराणाम् । तृतिराहारगुणानाम् । वेगसन्धारणमनारोग्यकुष्ठं स्वनामख्यातं न तु पुष्करमूलम् । वातहरयोरभ्यङ्गोपनाहयोरुपयोगिनां श्रेष्ठतमम् । मधुकं चक्षुष्याणां वृष्याणां केश्यानां कप्ट्यानां वर्ष्यानां बल्यानां विरजनीयानां रोपणीयानाञ्च श्रेष्ठतमम् । वायुर्वाह्यो व्यजनादिकृतश्च प्राणप्रदानहेतूनां संज्ञाप्रदानहेतूनाश्च श्रेष्ठतमः। अग्निर्वाह्य आमप्रशमनानां स्तम्भप्रशमनानां शीतप्रशमनानां शूलप्रशमनानामुवेपनप्रशमनानाञ्च श्रेष्ठतमः । जलं स्तम्भनीयानां श्रेष्ठतमम् । मृदो लोष्ट्र भृष्टं सज्जले निक्षिप्तं तदुदकं तृष्णाया अतियोगप्रशमनानां श्रेष्ठतमम् । इत्यौषधानां द्रव्याण्युक्त्वा हिताहितानि द्रव्याणां काण्याह-अतिमात्रेत्यादि। आहारद्रव्याणामतिमात्राशनमामप्रदोषस्यालसकादेतूनामशनानां मध्ये श्रेष्ठतमम्। यथान्यभ्यवहारो मात्रयाऽभ्यवहारोऽग्निसन्धक्षणानामभ्यवहाराणां श्रेष्ठतमः ।
यथासात्म्यं चेष्टा चाभ्यवहारश्च सेव्यानां क्रियाणां श्रेष्ठतमः। कालभोजनं यस्य यः कालोऽभ्यस्त आहारे तस्य तत्कालभोजनमारोग्यकराणां कर्मणां श्रेष्ठतमम् । भोजनकालस्तु साद्धप्रहरद्वयाभ्यन्तरे प्रथमाहारस्य, द्वितीयस्याहारस्य कालस्ततः परं सार्द्धप्रहरद्वयाभ्यन्तरे रात्रावागेकयामात् ।
वेपनम् । उदकमाश्वासनस्तम्भनानामिति वक्तव्ये,, यत् पृथक्, “उदकमाश्वासकराणां” तथा, "जलं स्तम्भनानाम्” इति करोति, तेन कर्मद्वयेऽपि जलस्यानन्यसाधारणतां दर्शयति । मिलित्या गुणपाठे हुपभयकर्मकर्तृत्वे हेयव प्राधान्यं स्यात् । एवमन्यत्राप्यनेककर्मकर्तृवे यस्य प्राधान्यमुक्त पिप्पलीमूलादौ, तत्र तथाभूतानेककर्मकर्तृत्वे हेयव प्राधान्यं ज्ञेयम्, न तु पृथक्कर्मणि। लामजकोशीरम् उशीरद्वयम् सगन्धमगन्धञ्च गृह्यते। एकाशनभोजनमित्येक काल
For Private and Personal Use Only