________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२५श अध्याय: । सूत्रस्थानम् ।
८६३ गोनुरो मूत्रकृच्छानिलहराणाम्। हिङ्गा निर्यासश्छेदनीयदीपनीयभेदनीयानुलोमिकवातकफप्रशमनानाम्। अम्लवेतसो भेदनीयदीपनीयानुलोमिकवातश्लेष्महराणाम् । यावशूकः संसनीयपाचनीयार्थीनानाम्। तक्राभ्यासो ग्रहणीदोषशोफार्मोघृतव्यापत्प्रशमनानाम्। क्रयादमांसाभ्यासो ग्रहणीदोषशोषार्थीनानाम। क्षीरघृताभ्यासो रसायनानाम । समघृतसक्तुकाभ्यासो वृष्योदावर्त्तहराणाम । तैलगण्डूषो दन्तबलरुचिकराणाम । चन्दनोडुम्बरं दाहनिर्वापणानाम् । रानागुरुणी शीतापनयनप्रलेपनानाम् । लांमजकोशीरे दाहत्वगदोषस्वेदापनयनप्रलेपनानाम् । कुष्ठं सांग्राहिकाणां बल्यानां वातहराणाञ्च श्रेष्ठतमा। गोक्षुरो मूत्रकृच्छहराणामनिलहराणाश्च श्रेष्ठतमः। हिङ्गुनिया॑सश्छेदनीयानां दीपनीयानां भेदनीयानामानुलोमिकानां वातकफप्रशमनानाञ्च श्रेष्ठतमः। अम्लवेतसो भेदनीयानां दीपनीयानामानुलोमिकानां वातश्लेप्महरणानाञ्च मध्ये श्रेष्ठतमः । यावशूकः संसनीयानां पाचनीयानामर्शोनानाञ्च मध्ये श्रेष्ठतमः । तक्राभ्यासो ग्रहणीदोषप्रशमनानामर्शःप्रशमनानां घृतव्यापत् प्रशमनानाश्च मध्ये श्रेष्ठतमः । क्रव्यादमांसाभ्यासो ग्रहणीदोषनानां शोषनानामौनानाञ्च मध्ये श्रेष्ठतमः । क्षीरोत्थं घृतं न तु दध्युत्थम्, तस्य घृतस्याभ्यासो रसायनानामनौषधद्रव्याणां मध्ये श्रेष्ठतमः। न तु रसायनौषधानां सोमादीनाम्। सोमादयो ह्योषधय एकैकशो रसायनतमाः (औपधानि)। समघृतसक्तकाभ्यासो दृष्याणामुदावतहराणां श्रेष्ठतमः। तैलगडूपो मुखे धृतो दन्तवलकराणां रुचिकराणाञ्च श्रेष्ठतमः । चन्दनमुडुम्बरवक् च व्यस्तं समस्तञ्च दाहनिपिणार्थ प्रलेपनानां श्रेष्ठतमम् । राना चागुरु च व्यस्तसमस्ते द्वे शीतापनयनार्थप्रलेपनानां श्रेष्ठतमे भवतः। लामज्जकं सुगन्धि वीरणमलम् । निर्गन्धवीरणमूलमुशीरम । द्व व्यस्तसमस्ते दाहखगदोपस्वेदानामपनयनाथ प्रलेपनानां श्रेष्ठतमे।
कन्यं मांसमत्तीति क्रम्यादो व्याघ्रादिः। समघृत इत्यत्र समशब्दः सहार्थः ; उद्व पनमिति
For Private and Personal Use Only