________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८६२
चरक-संहिता। । यजःपुरुषीयः नीयरक्तपित्तप्रशमनानाम्। चित्रकमूलं दीपनीयपाचनीयगुदलशोथहराणाम् * । पुष्करमूल हिक्काश्वासकासपार्श्वशूलहराणाम्। मुस्तं सांग्राहिकदीपनीयपाचनीयानाम् । अमृता सांग्राहिकदीपनीयवातहरश्लेष्मशोणितविबन्धप्रशमनानाम् । विल्व सांग्राहिकदीपनीयवातकफप्रशमनानाम् । अतिविषा दीपनीयपाचनीयसांग्राहिकदोषहराणाम्। उत्पलपद्मकुमुदकिचल्कः सांग्राहिकरक्तपित्तप्रशमनानाम्। दुरालभा पित्तश्लेष्मप्रशमनानाम् । गन्धप्रियङ्ग शोणितपित्तातियोगप्रशमनानाम्। कुटजत्वक श्लेष्मपित्तरक्तसांग्राहिकोपशोषणानाम् । काश्मर्यफलं + सांग्राहिकशोणितपित्तप्रशमनानाम् । पृश्निपर्णी सांग्राहिकदीपनीयवातहरवृष्याणाम्। विदारिगन्धा वृष्यसव्वदोषहराणाम्। बला सांग्राहिकबल्यवातहराणाम् । मूलम् । चित्रकमूलं न तु पत्रादिकम् । पुष्करमूलम्-पुष्करं वृक्षविशेषस्तस्य मूलं न तु कुष्ठम् । मुस्तं भद्रमुस्तकम् । अमृता गुड़ची। सांग्राहिकाणां दीपनीयानां वातहराणां श्लेप्मशोणितयोविबन्धप्रशमनानाञ्च । विल्वमामविल्वफलम् । न तु मूलादिकम् । अतिविषा घुणप्रिया। उत्पलस्य पद्मस्य कुमुदस्य किञ्जल्कः केशरः । दुरालभा यवासः । गन्धप्रियङ्गः प्रियङ्गरेव । शोणितपित्तस्य रक्तपित्तरोगस्य रक्तातिप्रवृत्तिप्रशमनानां श्रेष्ठतमः। __ कुटजलक् श्लेष्मणः पित्तस्य रक्तस्य च सांग्राहिकाणामुपशोषणानाञ्च मध्ये श्रेष्ठतमा श्लेष्मादिसांग्राहिकी श्लेष्मादुरपशोषणी च। काश्मय्यफलं सांग्राहिकाण्यथ च रक्तपित्तप्रशमनानि च यानि तेषां मध्ये श्रेष्ठतमम् । पृश्नीपर्णी सांग्राहिकाणां दीपनीयानां वातहराणां दृष्याणाञ्च मध्ये श्रेष्ठतमा। विदारिगन्धा शालपर्णी वृष्याणां सव्वंदोपहराणाञ्च श्रेष्ठतमा। बला ज्ञेयम् ; मन्दकमिति मन्दजातम् ; उद्दालको वनकोद्रवः ; गुदशोथोऽर्शः ; गन्धप्रियङ्गः प्रियङ्गुरेव ; * दीपनीयपाचनीयगुदशोथार्शःशूलहराणामिति वा पाठः । + रक्तसंग्राहिकेति वा पाठः ।
For Private and Personal Use Only