________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२५श अध्यायः
सूत्रस्थानम् । वमनं श्लेष्महराणाम्, विरेचनं पित्तहराणाम्, वस्तिर्वातहराणाम्, स्वेदो माईवकराणाम्, व्यायामः स्थैय्यकराणाम्, क्षारः पुंस्त्वोपघातिनाम्, तिन्दुकमनन्यद्रव्यरुचिकराणाम् । आमकपित्थम् अकराव्यानाम् आविकं सर्पिरहृद्यानाम्, अजाक्षीरं शोषन्न-स्तन्यसात्म्यदोषत्र-सांग्राहिकशोणितपित्तप्रशमनानाम् ,
श्लेष्मप्रशमनानां पक्क तिन्तिड़िकादीनां मध्ये श्रेष्ठतम वातश्लेष्महरं सव्व तैलम्। इति स्वस्थातुरयोयथासम्भवं वृत्यादीनां कर्मणां द्रव्याणि व्याख्यातानि। ___ अथ स्वस्थातुरयोः कर्मणां कर्माण्याह-वमनमित्यादि। इलष्महराणां कर्मणामुपवासादीनां मध्ये वमनं कर्म श्रेष्ठतमं श्लेष्महरम् । विरेचनं पित्तहराणां कम्मेणां पानाशनादीनां मध्ये श्रेष्ठतमं पित्तहरम् । वातहराणां स्नेहनादिकर्मणां मध्ये वस्तिः कर्म श्रेष्ठतमं वातहरम् । मादेवकराणां मईनादीनां मध्ये स्वेदः कर्मा श्रेष्ठतमो मादेवकरः। ब्यायामः स्थैय्यंकराणां शरीरदाढ्य कराणां पानाशनादीनां कम्र्मणां मध्ये व्यायामः कर्म श्रेष्ठतमः स्थय्येकरः। इति ।
कर्मणां कर्माण्युक्त्वा कर्मणां द्रव्याणि स्वस्थातुरयोरहितान्याह-क्षार इत्यादि। पुस्खोपघातिनां चणकादीनां द्रव्याणां मध्ये क्षारः श्रेष्ठतमः पुंस्त्रोपघाती। तिन्दुकं तिन्दुकफलम्, अनन्यस्य स्वस्यैव रुचिकराणां जाम्बवादीनां मध्ये तिन्दुकफलं श्रेष्ठतमं स्वरुचिकरम् । अन्यद्रव्यारोचकं श्रेष्ठतमं तिन्तुकमिति । अकण्ठ्यानां कप्ठस्याहितानां कषायरसद्रव्याणां वकुलफलादीनां मध्ये आमकपित्थफलं श्रेष्ठतममकण्ठ्यम् । अहयानामाहारद्रव्याणामुष्ट्रीक्षीरादीनां मध्ये आविकं मेषीसर्पिः श्रेष्ठतममहृद्यम् ।
अथातुरस्य कर्मणां हितानि श्रेष्ठतमानि द्रव्याण्याह-अजाक्षीरमित्यादि। शोषनानां स्तन्यानां सात्म्यानां सांग्राहिकाणां रक्तपित्तप्रशमनानाञ्च मध्येऽजाक्षीरं श्रेष्ठतमं शोषघ्नं स्तन्यहितं सात्म्यं सांग्राहिक रक्तपित्तप्रशमनमिति।
मधुनश्च इलेष्मपित्तप्रशमनश्रष्टत्वावधारणं न विरोधि। वस्तिरित्यविशेषादास्थापनानुवासने।
For Private and Personal Use Only