SearchBrowseAboutContactDonate
Page Preview
Page 899
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ८८८ चरक-संहिता। [ यज्जःपुरुषीयः श्रेष्ठतमम् , उदकमाश्वासकराणाम् , सुरा श्रमहराणाम् , क्षीरं जीवनीयानाम् , मांसं वृहणीयानाम् , रसरतर्पणीयानाम्। लवणमन्नद्रव्यरुचिकराणाम् , अम्ल हृद्यानाम् । कुक्कुटो बल्यानाम् , नकरतो वष्याणाम् , मधु श्लेष्मपित्तप्रशमनानाम् , सर्वाितपित्तप्रशमनानाम् , तैलं वातश्लेष्मप्रशमनानाम् । करखेन श्रेष्ठतमं भवतीत्यर्थः। एवं सव्वत्र । श्रेष्ठतममित्यधिकारः। उदकं सव्वेमेव माहेन्द्रनादेयादिकम् । आश्वासकराः सन्ति वहवो भावाः सान्ववचनधनदानादयस्तेषां श्रेष्ठतममुदकम् । सुरा श्रमहराणां व्यजनानिलच्छायासनादीनां मध्ये सुरा श्रेष्ठतमेति लिङ्गविपरिणामेन।। जीवनीयानां शीतवातजलानजीवकर्षभकादीनां श्रेष्ठतमं क्षीरम् । मुंहणीयानां मधुरादीनां श्रेष्ठतमं मांसम्। तपणीयानां दध्यम्लकोलबदरादीनां मध्ये मांसस्य रसः श्रेष्ठतमस्तपणः। अन्नद्रव्यरुचिकराणां मरिचाईकाम्लादीनां मध्ये लवणं श्रेष्ठतममन्नद्रव्यरुचिकरम् । हृद्यानां भोजनादिषु मनोशानां दुग्धदधिशर्करादीनां षड्सद्रव्याणां मध्येऽम्लरसद्रव्यं श्रेष्ठतमं हृद्यम् । वल्यानां वलहितानां घृतदुग्धादीनां मध्ये कुव कुटो रसमांसादिविधया श्रेष्ठतमो बल्यः। वृष्याणां पुरुषत्वशक्तिजननानां दुग्धादीनां मध्ये नक्ररेतः श्रेष्ठतमं वृष्यम् । नक्रः कुम्भीरः। श्लेष्मपित्तप्रशमनानां स्वस्थातुरयोः श्लेष्म पित्तप्रशमनानां यवगोधूमादीनां मध्ये मधु श्रेष्ठतमं श्लेष्मपित्तप्रशमनम्। दुरालभा खातुरस्य श्लेष्मपित्तप्रशमनानां श्रेष्ठतमा वक्ष्यमाणा नैतेन विरुध्यते। वातपित्तप्रशमनानां दुग्धादीनां मध्ये श्रेष्ठतमं वातपित्तप्रशमनं सर्पिः। वातवयवमिति कर्मविशेषणम्, तेन हिताहितैकदेशरूपं कर्माहारविकाराणामिति स्यात् ; तत्र हितं कर्म-"अन्नं वृत्तिकाराणाम्' इत्यादि, अहितं कर्म,-"आविकं सर्पिरहृद्यानाम्" इत्यादि, औषधानां कर्म,-"त्रिवृत् सुखविरेचनानाम् इत्यादि व्याख्यानं पूर्ववदेव। बृत्तिकराणामिति शरीरस्थितिकराणाम्, अन्नध्यरुचिकराणामिति -लवणमन्नेन संयुक्त सदन्ने रुचिं करोतीत्यर्थः। अम्लं हृद्यानामिति रुच्यानामिति, अम्लन्तु स्वयमेव रोचते। मधु श्लेष्मपित्तप्रशमनानामिति द्रवद्रव्येषु, दुरालभा त्वौषधद्रव्येषु, तेन दुरालभाया For Private and Personal Use Only
SR No.020145
Book TitleCharak Samhita Part 01
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1204
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy