________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ξέσ
चरक संहिता |
[ यज्जःपुरुषीयः
अविचीरं श्लेष्म पित्तजननानाम्, महिषीतीरं स्वप्नजननानाम, मन्दकं दधि अभिष्यन्दकराणाम्, गवेधुकान्नं कर्षणीयानाम्, कोद्दालकान्नं रुक्षणीयानाम् इतुमूत्रजननानाम् । यवाः पुरीषजननानाम् जाम्बवं वातजननानाम्, शष्कुल्यः श्लेष्मपित्तजननानाम्, कुलत्थोऽम्लपित्तजननानाम्, माषाः श्लेष्मपित्तजननानाम्, मदनफलं वमनास्थापनानुवासनोपयोगि
श्लेष्म पित्तजननानां द्रवद्रव्याणां मध्ये श्रेष्ठतमं श्लेष्मपित्तजननमविक्षीरं मेषीक्षीरम्, न तु कठिनानां द्रव्याणाम् । कठिनानां हि वक्ष्यतेऽत्र - माषाः श्लेष्म पित्तजननानामिति शष्कुल्यः श्लेष्मपित्तजननामिति च । महिषीक्षीरं स्वप्रजननानाम् । मन्दकं दध्यभिष्यन्दकराणामिति । शरीरधातुक्लेदकरणपूर्वकस्रावकराणां मध्ये मन्दजातं दधि श्रेष्ठतममभिष्यन्दकरम् ।
कर्षणीयानां द्रव्याणां मध्ये गवेधुकान्नं जूर्णान्नं श्रेष्ठतमं कर्षणीयम् । विरुक्षणीयानां मध्ये कोद्दालकान्नं वनकोद्रवान्नं श्रेष्ठतमं रुक्षणीयम् । मूत्रजननानां मध्ये इक्षुः श्रेष्ठतमो मूत्रजननः । परीषस्य बहुमलस्य जननद्रव्याणां मध्ये यवाः श्रेष्ठतमा बहुपुरीषजननाः ।
वातजननानां मध्ये जाम्बवफलं श्र ेष्ठतमं वातजननम् । श्लेष्म पित्तजननानां भक्ष्याणां मध्ये शष्कुल्यः श्रेष्ठतमाः श्लेष्मपित्तजननाः । न तु कठिनानां द्रवाणां वा मध्ये | कठिनानां माषाः श्लेष्मपित्तजननानामिति वक्ष्यते । द्रवाणामविक्षीरं श्लेष्म पित्तजननानामित्युक्तम् । अम्लपित्तजननानां मध्ये कुलत्थः श्रेष्ठतमोऽम्लपित्तजननः । श्लेष्मपित्तजननानां कठिनानां मध्ये माषाः श्रेष्ठतमाः श्लेष्मपित्तजनना न तु द्रवाणां भक्षत्राणां वा मध्ये । तदुक्तम् अविक्षीरं श्लेष्मपित्तजननानां शष्कुल्यः इलेष्मपित्तजननानामिति । 'श्रेष्ठतमखेनेकद्रव्योपदेशमतिभावेन त्रयाणां इलेष्मपित्तजनने श्रेष्ठतमखवचनं न दोषावहम' इति यो व्याचष्टे ताख्याने अविक्षीरशष्कुलीमाषाः श्लेश्मपित्तजननानामित्येवं पाठापत्तिः ।
इति कर्म्मणां द्रव्यादीन्युक्ता औषधानां द्रव्यादीन्याह - मदनफलमित्यादि । अविक्षीरं पित्तश्लेष्म जननानामिति पेयेषु मध्ये, माषाः पित्तश्लेष्मजननानामिति भोज्येषु, शष्कुल्यः पित्तश्लेमजननानामिति भक्ष्येषु मध्ये किंवा त्रयमप्येतत् पित्तश्लेष्मजननं प्रति समान
;
For Private and Personal Use Only