________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८८६ चरक-संहिता।
| यजःपुरुषोयः पक्षिणाम् , भेको क्लेिशयानाम् , चिलि चिमो मत्स्यानाम् ,
आविकं सर्पिः पि.म् , अविक्षीरं नीराणाम् , कुसुम्भस्नेहः स्थावरस्नेहानाम् महिषवसा आनुपमृगवसानाम् कुम्भीरवसा मत्स्यवसानाम् , काकमदगुवसा जलचरविहङ्गवसानाम् , चटकवसा विष्किरशकुनिवसानाम् , हस्तिमेदः शाखादमेदसाम् , मूलकं * कन्द नाम् , निकुचफलं फलानाम , फाणिमिक्षुविकाराणाम्। इति प्रकृत्यैवाहिततमानामाहारविकाराणां प्रकृष्टतमानि द्रव्याणि व्याख्या नि भवन्ति ॥ २१॥ मांसानाम् । काणकपोतः पक्षिणां मांसानां मध्ये काणकपोतमांसमपथ्यतमखेन श्रेष्ठतमम्। काणकपोतः काणाकोया।।
भेको विलेशयानां मांसानां भेकमांसम् । चिलिचिमो मत्स्यानां मांसानां मध्ये वनरोहितमत्स्यमांसमपथ्यतमखेन श्रेष्ठतमम् । आविकं सपिः सपिषाम् । अविक्षीरं क्षीराणाम् । कुसुम्भरनेहः स्थावरस्नेहानाम् । महिषवसानूपमृग वसानाम् । कुम्भीरवसा मत्स्यवसानाम् । कुम्भीरोऽपि शास्त्रे मत्स्येषु व्यवहियते । काकमदगुवसा जलचरविहङ्गवसानाम्, काकमद्गुः पानीयकाकः । चटकवसा विष्किरशकुनिवसानाम् । विष्किरसंज्ञा वक्ष्यते।।
हस्तिमेदः शाखादमेदसां मध्येऽपथ्यतमत्वेन श्रेष्ठतमम् । मूलकं कन्दानाम्। निकुचफलं डहुफलं फलानाम् । फाणितम वर्तित इक्षुरसः, इक्षुविकाराणां मध्येऽपथ्यतमखेन श्रेष्ठतमं भवतीति । __ इति प्रकृत्यैवाहिततमानामाहारविकाराणां प्राधान्यतो द्रव्याणि व्याख्या तानि ॥२१॥ इति पदम् ; वर्षासु नादेयं वर्षानादेयम् ; ऊपरदेशभवमूषरम्, काणकपोत इत्यत्र काणशब्दोऽल्पवचनः यथा--"काणो मेघः” इति। चिलिचिमो महाशकली मत्स्यो रोहितभेदः, आनंयभदकाप्यीयेऽग्रे रोहितभेदमेव चिलिचिमं वक्ष्यति ; काकमद्गुः पानीयकाकिका ; चटक: प्रसिद्धः ॥२१॥
* आलुकमिति वा पाठः ।
For Private and Personal Use Only