________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२५श अध्याय:
८८५
सूत्रस्थानम् । वसा विष्किरशकुनिवसानाम् , अजमेदः शाखादमेदसाम , शृङ्गवरं कन्दानाम् , मृद्रोका फलानाम् , शर्करा इक्षुविकाराणाम् , इति प्रकृत्यैव हिततमानामाहारविकाराणां प्राधान्यतो द्रव्याणि व्याख्यातानि भवन्ति ॥ २० ॥ ____ अत ऊर्द्ध महिततमानप्युपदेच्यामः। यवकाः शूकधान्यानामपथ्यतमत्वेन श्रेष्ठतमा भवन्ति , माषाः शमीधान्यानाम्, वर्षाना यमुदकानाम् , ऊपरं लवणानाम् , सर्षपशाकं शाकानाम् , गोमांसं मृगमांसानाम् , काणकपोतः मध्ये । कुक्क टवसा विष्किरशकुनिवसानां श्रेष्ठतमा न तु सर्वेषां शकुनीनां वसानाम् । हृन्मेदस्तु वपावसेत्यभिधीयते। अजमेदः शाखादमेदसां श्रेष्ठतमम्। मेदः सर्वधातुस्नेहः । शृङ्गवेरं कन्दानाम् । मृवीका फलानाम् । शर्करा इक्षुविकाराणाम्। इति प्रकृत्या स्वभावेन हिततमानामाहारविकाराणां प्राधान्यतो द्रव्याणि व्याख्यातानि ॥२०॥
गङ्गाधरः-प्रकृत्यैव अहिततमान्यप्याहारविकाराणां प्राधान्यतो द्रव्याणि उपदेक्ष्यामः। अहिततमानीति प्रतिज्ञावचने निर्देशात् । पूर्वस्मादनुत्तेषु पथ्यतमखेन श्रेष्ठतमा भवन्तीति । एष मध्ये पथ्यतमखेनेतिपदं प्रतियोगिपदमहिततमानीति दृष्ट्वा निवृत्तम् । तेनाहिततमत्वेन श्रेष्ठतमं भवतीति लब्धम् । स्फुटमाह-यवका इत्यादि। अपथ्यतमखेन श्रेष्ठतमा भवन्तीति परत्र सव्वेत्रानुवत्यम्। यवका वेणुयवाः । माषाः शमीधान्यानामपथ्यतमखेन श्रेष्ठतमाः। वर्षानादेयं वर्षासु नदीजलम्। ऊपरं लवणानामितिऊपरमृत्तिकासम्भवं लवणं लवणानामपथ्यतमत्वेन श्रेष्ठतमं भवति। सार्षपशाकं शाकानामपथ्यतमखेन श्रेष्ठतममतिशयेनापथ्यतमम्। गोमांसं मृगवारिजाताश्च कफपित्तविवर्द्धनाः” इति, तथापीह सजातीयेषु पथ्यत्वप्रकणे होच्यते, तथा किञ्चिद्दोषकरस्यापि धातुभेदेन पथ्यत्वं भवत्येव, किञ्चित् स्वस्थहितत्वं द्रव्यस्य पृथगेव गुणः दोषकत्तृत्वं दोषकृत्यं वापेक्षते, यदुक्तम्-"किञ्चिद्दोपप्रशमनं किञ्चिद् धातुप्रदूषणम् । स्वस्थवृत्तौ मतं किञ्चिद द्रव्यं त्रिविधमुच्यते” ॥ चुलकी "शुशु" इति ख्यातः ; पाकहंसः श्वेतहंसः॥१८-२०॥
चक्रपाणि:-प्रकृरतम इति तमप्रयोगः पूर्ववत् स्वार्थिकः, यद्यप्यपथ्यतम इति तमपप्रयोगेणैव प्रकृष्ट स्वं प्रतिपादितं, तथाप्यपथ्यतमानां बहूनां मध्ये प्रकर्षख्यापनार्थ "प्रकृयतमः''
For Private and Personal Use Only