________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
८८४
चरक संहिता |
[ यज्जः पुरुषीयः
शमीधान्यानाम्, अन्तरीक्षमुदकानाम्, अन्तरीचमुदकानाम्, सैन्धवं लवणानाम्, जीवन्तीशाकं शाकानाम्, ऐणेयं मृगमांसानाम्, लावः पक्षिणाम्, गोधा विलेशयानाम्, रोहितो मत्स्यानाम्, गव्यं सर्पिः सर्पिषाम्, गोक्षीरं चीराणाम्, तिलतैलं स्थावरस्नेहानाम् वराहवसानूपमृगवसानाम्, चुलुकीवसा मत्स्यवसानाम्, पाकहंसवसा जलचर विहङ्गमवसानाम्, कुक्कुट
-
Acharya Shri Kailassagarsuri Gyanmandir
मिति निर्द्धारणे षष्ठी । एवं वक्ष्यमाणेषु सर्व्वत्र बोध्यम् । पथ्यतमखेनेति पथ्यानां हितानां मध्येऽतिशयेन पथ्यास्तत्त्वेन तद्धम्मवत्त्वेन श्र ेष्ठतमाः प्रशस्यातिशया ये तेषां मध्येऽतिशयेन प्रशस्यातिशया इति । एतत्सूत्रस्थं पथ्यतमत्वेन श्रेष्ठतमा इत्यधिकृतमुत्तरत्र सव्र्व्वत्रानुवत्तनीयम् । तथा चमुद्राः शमीधान्यानामित्यादौ पथ्यतमत्वेन श्रेष्ठतमा इत्येवमादि योजना काय । शमीधान्यानि सपयोनयः । आन्तरीक्षमुदकमेकविधमेवैन्द्रकारकतौपा र मनभेदेन चतुव्विधत्खेऽप्यान्तरीक्षत्वेनै क्यात् ।
-------
सैन्धवं लवणानां पथ्यतमत्वेन श्र ेष्ठतममिति यथाह लिङ्गवचन विपरि णामादन्वयात् । जीवन्तीशाकं शाकानां स्वस्थातुरोभयत्र पथ्यतमत्वेनातुरहिततमकाकमाच्यादिभ्यः श्रेष्ठतमम् । ऐणेयं मृगमांसानामिति मांसजातितः पृथक्करणादेणस्य कृष्णसारस्य मांसं न तु चर्मादिकं पथ्यतमखेन श्रेष्ठम् । लावः पक्षिणामिति पक्षिणां मांसानामित्यनुवृत्त्या लावमांसं पक्षिमांसानां श्रेष्ठतमम् । एवं गोधा सुवणेगोधामांसं विलेशयानां मांसानां श्रेष्ठतमम् | रोहितो मत्स्यानामिति । मत्स्यानां मांसानां मध्ये रोहितमत्स्यमांस श्रेष्ठतमम् । गव्यं सर्पिः सर्पिषाम् । गोक्षीरं क्षीराणाम् । तिलतैलं स्थावरस्नेहानाम् ।
वराहवसानूपवसानाम् । चुलुकीवसा शिशुमारवसा, मत्स्येषु चुलुकी व्यवह्रियते शास्त्रे | हंसवसा जलचरविहङ्गवसानां न तु जलचराणां सर्वेषां श्रेष्ठतमः कुरूणाम्” इति, तथा "अन्यतमं जिह्वावैपदिकम् " इति । श्रेष्ठतमा इति प्रशस्याः । यद्यपि काकमाची त्रिदोषनी रसायनी च, तथापीह जीवन्ती स्वस्थ हितत्वप्नकर्षादुच्यते, स्वस्थहितत्वप्रकर्षश्चेह वचनादेव लभ्यते; एवमन्यत्रापि व्याख्येयम्, काकमाच्यास्त्वयं विशेषःयत् - काकमाची पर्युषिता मरणाय ; यद्यपि गोधारोहितौ कफपित्तवर्द्धनौ, वचनं हि - "भूशया
For Private and Personal Use Only