________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२५श भध्याया
सूत्रस्थानम् । अररिसंख्येयविकल्पो द्रव्य योगसंस्कारादिकरणबाहुत्यात्। तस्य खलु ये ये विकारावयवा भूयिष्ठमुपकल्यन्ते भूयिष्ठकल्पनाश्च मनुष्याणाञ्च प्रकृत्यैव हिततमाश्चाहिततमाश्च तांस्तान् यत्रावदुपदेच्यामः। तद्यथा----लोहितशालयः शुकधान्यानां पथ्यतमत्वेन श्रेष्ठतमा भवन्ति, मुगाः वन्धी सूक्ष्मश्च सुगन्धो रोचनो मृदुः। दुर्गन्धो विपरीतोऽस्माल्लासासचिकारकः॥ सरोऽनुलोमनः प्रोक्तो मन्दो यात्राकरः स्मृतः । व्यवायी चाखिलं देहं व्याप्य पाकाय कल्पते ॥ विकाशी विकशन्नेव सन्धिवन्धान विमोक्षयेत् । आशुकारी तथाशुखाद्धावत्यम्भसि तैलवन ॥ मूलस्तु सौम्यात् सूक्ष्मेषु स्रोतःस्वनुसरः स्मृतः । गुणा विंशतिरित्येवं यथावत् परिकीर्तिताः ॥ इति ॥ १९ ॥
गङ्गाधरः--स पुनराहारोऽपरिसङ्घ त्रयविकल्पः। अपरिसङ्घ प्रयः संख्यातुमहेलरहितो विकल्पो यस्य सः। द्रव्याणां संयोगम्य करणस्य संस्कारस्य च बाहुल्यात। इति। तहि किमसंवाकविकल्पानां द्रव्याणां कात् स्ननोपदेशः करिष्यते इति? अत उच्यते--तस्येत्यादि। तस्याहारस्य ये ये विकारा अवयवाश्च भूयिष्ठं प्रायेणोपकल्प्यन्ते, एवं ये ये भूयिष्ठकल्पना आहारस्य विकारा यवाग्वादयोऽवयवाश्च मनुष्याणां प्रकृत्यैव हिततमाश्चाथवाहिततमाश्च भवन्ति तांस्तानाहारस्य विकारानवयवान् यथावदुपदेक्ष्यामो न कृत्स्नान॥
तयथेत्यादि । लोहितेत्यादि। लोहितशालयः शूकधान्यानां पथ्य तमत्वेन श्रेष्ठतमा भवन्तीति । लोहितशालय इति रक्तशालयः। शुकधान्याना
कारका इति नेहोच्यन्ते , ये तु तत्र संयोगकरणे आहारविधौ भूयुपयोगिनी, ते बहुविधत्वेन त्वपरिसंख्येयविकल्पहेतुत्वेनैव निवेशिते ; परिमाणन्तु मात्रा, सा चेहानुदाहरणीयत्वेन प्रतिज्ञाता 'मात्रादीन भावाननुदाहरन्तः' इति वचनेन। व्यसंयोगकरणबाहुल्यादिति-द्रव्यं शूकधान्यादिकं, संयोग आहारद्रव्याणां मेलनं, करणं संस्कारः। विकारावयवा इति प्रकारैकदेशाः, भूयिष्टकरूपानामिति किञ्चिन्यू नवस्तूनां, कल्पशब्दो ह्ययमीषदसमाप्त्यर्थः, यथा--"राजकल्पः" इति । एतेन प्रायशो वस्तूनां ये हिता भहिताश्च त उच्यन्त इत्यर्थः ; अन्ये तु भूषिष्ठकल्पानामिति समानधातुप्रकृतीनामिति अवते ; प्रकृस्येति न संयोगकरणादिना, किन्तु स्वभावेन।।
लोहितशाली रक्तशालिः, शूकधान्यानामित्यादौ निर्धारणे पष्ठी ; पथ्यतमस्वन इति नमपप्रयोगः सजातीयेभ्यः प्रकृष्टत्वेन श्रेष्ठतमा इति तमपग्रहणं स्वार्थिकं, यथा--- "युधिष्ठिरः
For Private and Personal Use Only