________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८७८
चरक-संहिता। [यज्जापुरुषीयः ____ एवंवादिनं भगवन्तमात्र यमग्निवेश उवाच---कथमिह भगवन् हिताहितानामाहारजातानां लक्षणमनपवादमभिजानीयाम। हितसमाख्यातानाञ्चैव ह्याहारजातानामहित. समाख्यातानाञ्च मात्राकालक्रियाभूमिदेहदोषपुरुशवस्थान्तरेषु विपरीतकारित्वमुपलभामह इति ॥ १५ ॥ तथा च गर्भिण्या हिताहारोपयोगादरोगमेव पुरुषोत्पत्तिरभिवृद्धिश्च । अहिताहारोपयोगात् सरोगं गर्भस्याभिवृद्धिभवति। एवं जातस्य हिताहारोपयोगादरोगं पुरुषोऽभिवर्द्धते रोगाश्वाहिताहारादुत्पद्यन्तेऽभिवर्तन्ते चेति ॥१४॥
गङ्गाधरः-एवं वादिनं भगवन्तमात्रेयं गुरु पुनर्वसुमग्निवेश उवाच । कथमित्यादि। भगवन गुरो हिताहितानामाहारजातानामनपवादं लक्षणमपवादहीनं लक्षणं कथं वयमभिजानीयामेति। अथ येन हितं भवति तद्धितलक्षणं येनाहितं स्यात् तदहितलक्षणमिति । ___ कस्तत्र संशय इति ? अत आह-हितसमाख्यातानाञ्चैवेत्यादि। हितसमाख्यातानाञ्चैवाहारसमूहानामहितसमाख्यातानाञ्च मात्रादिषु विपरीतकारिखमहितकारिखमुपलभामह इति। तद्यथा- रक्तशाल्यादिमुद्गादीनाम् एकान्तहितानाश्च हीनातिमात्राभ्यामुपयोगात्। कालान्तरेषु नवखातिपुराणखकालेधूपयोगात्। क्रियान्तरेषु विरेचन क्रियादिषूपयोगात्। भूम्यन्तरेष्वानूपदेशभूम्यूपरभूमिषु जातानामुपयोगात्। देहान्तरेषु लङ्घनीयदेहेषूपयोगात्। दोषान्तरेषु शूलाद्यारम्भकदोषेषूपयोगात्। पुरुषान्तरेषु लखनीयादिषूपयोगात्। अवस्थान्तरेषु मुमूष्वाद्यवस्थायामहितकारिखमुप
व्याधिनिमित्तशब्देन सामान्येन जनको वर्द्धश्च हेतुरुच्यते। अनपवादमित्ययभिचारि । हिताहारदर्ज्ञानताहेतुमाह-हितसमाख्यातानामित्यादि। विपरीतकारित्वमिति पथ्यस्यापथ्यत्वं मात्रादिवशाद् भवति, तत्र पथ्या रक्तशाल्यादयोऽतिमात्रा हीनमात्रा वा मात्रादोषादपथ्या भवन्ति ; तथा कालवशात् त एव शाल्यादयो लघुत्वाद् बलवदग्नीनां हेमन्ते न हिताः ; कालशब्देन चेह नित्य एव कालो गृह्यते, आवस्थिकस्य पुरुषावस्थाशब्देन गृहीतत्वात् । क्रिया तु संस्करणं, तेन च रक्तशाल्यादिरसम्यस्विन्नत्वाप्रस्रुतत्वादिना ओदनदोषेणाहितो भवति ; तथा स एव भूमिसम्बन्धादानूपदेशजः सन् अपथ्यो भवति, तश देहापेक्षया मेदस्विनो रक्तशालिल तया न हितो भवति, तदुक्तम्,-"गुरु चातर्पणन्चेष्टं स्थूलानां कर्शनं प्रति"
For Private and Personal Use Only