________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२५श अध्यायः सूत्रस्थानम् ।
८७७ आत्रं यस्य भगवतो वचनमनुनिशम्य पुनरपि वामकः काशिपतिरुवाच भगवन्तमात्रेयम्। भगवन् । सम्पत्तिनिमित्तजस्य पुरुषस्य विपत्तिनिमित्तजानाञ्च रोगाणां किमभिवृद्धिकारणं भवतीति ? तमुवाच भगवानात्र यः-हिताहारोपयोग एक एव पुरुषस्याभिवृद्धिकरो भवति, अहिताहारोपयोगः पुनव्याधिनिमित्तमिति ॥ १४ ॥ परमात्मनि प्रतिष्ठां गच्छ तीति चेत् ? न। परमव्योम्नो हि जन्मादिव्यवच्छेदाथम् इमानीत्युक्तम् । इमानि हि भूतानि गायच्या विशिष्टात् परमव्योम्नः शिवाजायन्ते। एतजज्ञापनार्थं पूवमुक्तम्। तस्मा एतत् प्रोवाच-अन्नं पाणं चक्षुः श्रोत्रं मनो वाचमिति । शक्तिब्रह्म हि अतिमूक्ष्मध्वन्यादिमदतिपरमव्योमरूपखात् श्रोत्रं ब्रह्म तेजश्चक्षुरापः प्राणोऽन्नमन्नं गायत्ती वाक् स्वयं मन इति संहतरूपं परमव्योम खल्वन्नेन सर्व बिभ्रदन्नं विश्वम्भरः प्राणेन प्राणन प्राणश्चक्षुषा पश्यंश्चक्षुः श्रोत्रेण शृण्वन् श्रोत्रं स्वयं मन्वानो मनो वाचा वदन वाक् परमात्मेति । तस्य तेजोऽबन्नान्यंशाः परिणामिनस्तेषां वैगुण्यमधर्माद्भवति सम्पत् पुनर्मात् । तस्माद यजः पुरुषस्तज्जा न तस्य व्याधय इति ॥१३॥
गङ्गाधरः-इत्येतद्वचनं भगवत आत्रेयस्य पुनर्वसोः श्रुखा काशिपतिवामकः पुनरप्युवाच भगवन्तमात्रेयं पुनव्वेसुम् । भगवन् भोः पुनर्वसो तावदुत्पत्तिकारणानाम् सम्पत्तिनिमित्तजस्य पुरुषस्याभिद्धिकारणं किं भवति ? तथा तावत् कारणानां व्यापत्तिनिमित्तजानाञ्च रोगाणामभिवृद्धिकारणं किं भवति ? इति ।
एवं पृष्टवन्तं तं काशिपतिं. वामकमात्रेय उवाच । तद् यथा-हिता. हारेत्यादि। एक एव हिताहारोपयोगः पुरुषस्याभिवृद्धिकरो भवति । एक एवाहिताहारोपयोगः पुनाधीनामुत्पत्त्य मिद्धिनिमित्तं भवतीति ।
चक्रपाणिः-हिताहारोपयोग एक एवेत्यवधारणेनान्याप्राधान्यं दर्शयति, नान्यप्रतिषेधम् । आचारस्य स्वप्नादेः कारणत्वेन तथा शब्दादीनामपि कारणत्वात् ; व्याधिनिमित्तमिति व्याध्यभिवृद्धि निमित्तं मध्यपदलोपाज्ज्ञेयं, अभिवृद्धिकारणस्यैव पृष्टत्वात्, तथाहिताहारस्य यद व्याधिनिमित्तत्वं, तस्य "तेषामेव विपद व्याधीन् विविधान् समुदीरयेद्" इत्यनेनैवोक्तत्वात् ; किंवा
For Private and Personal Use Only