________________
Shri Mahavir Jain Aradhana Kendra
२५ अध्यायः ]
www.kobatirth.org
सूत्रस्थानम् ।
८७६
तमुवाच भगवानात्रे यः -- यदाहारजातमग्निवेश समांश्चैव शरीरधातून् प्रकृतौ स्थापयति विषमांश्च समीकरोत्येतद्धितं विद्धि । विपरीतम हित मे तद्धिताहितलक्षणमनपवादं भवति । एवंवादिनं भगवन्तमात्र यमग्निवेश उवाच – भगवन् न लेतदेव - मुपदिष्टं भूयिष्ठकल्पाः सर्व्वभिषजो विज्ञात्यन्ति ॥ १६ ॥ लभामह इति । एवमहितसमाख्यातानाञ्श्चाहारजातानां मात्राकालाद्यन्तरेषूपयोगाद्विपरीतकारित्वं हितकारित्वमुपलभामह इति ॥ १५ ॥
गङ्गाधरः - एवमुक्तवन्तं तमग्निवेशं भगवानात्रेयो हिताहितानामाहार जातानामनपवादलक्षणमुवाच । तद्यथा - यदाहारेत्यादि । भो अग्निवेश ! यदेव आहारजातं सम्यगयुक्तं समान् शरीराधातून प्रकृतौ साम्यावस्थायां स्थापयति विषमांश्च शरीरधातून् समीकरोति, तदाहारजातं हितं विद्धि । यच्चैतद्विपरीतमाहारजातं सम्यगसम्यक् च युक्तमपि समान् शरीरधातून विषमीकरोति विषमांश्च शरीरधातून् न समीकरोति तदहितं विद्धि । इत्येतद्धिताहितलक्षणमनपवादं भवति । नास्ति तदप वज्र्ज्जयित्वाऽन्यो वादोऽस्य कश्चिदित्यनपवादः । सामान्यतो विशेषवचनमपवादः । ( एवमित्यादि । यदाहारजातमित्यादिनोक्तवन्तमात्रेय पुनसुमग्निवेश उवाच ) नन्वेवमपि चोपदेशमात्रेण किमाहारजातं द्रव्यतो गुणतः कम्मतः सर्व्वावयवतश्च सर्व्वभिषगभिर्विदितं भवतीति ? अत उच्यते - न त्वेतदित्यादि । भूयिष्ठकल्पाः प्रायेण सव्र्व्वभिषज एतदाहारजातं हितमहितमेवंप्रकारेणोपदिष्टं न हिताहितं विशास्यन्ति ॥ १६ ॥ इति ; तथा स एव दोषे वायावहितः, दोपशब्देन व्याधिरपि ग्रहीतव्यः । तथा पुरुष बाल्यावस्थायां श्लेष्मप्रधानायां तिक्तादि पथ्यम्, तत् तु वार्द्धक्ये वृद्धवाते न पथ्यम् । अवस्थान्तरशब्दश्च मात्रादिभिः प्रत्येकं सम्बध्यते; एवमहितस्यापि मात्रादिपरिग्रहेण हितत्वमुन्ने
Acharya Shri Kailassagarsuri Gyanmandir
तव्यम् || १४|१५ ॥
;
चक्रपाणिः - सिद्धान्तयति - यदाहारजातमित्यादि । अनेन च ग्रन्थेन हिताहितत्वं न स्वरूपेण भावानाम्, किन्तु मात्रादिसव्यपेक्षमिति दर्शितं स्यात् । न त्वित्यादि । -- - एतदिति हिताहितम् ; एवमुद्दिष्टमिति " यदाहारजातम्' इत्यादिलक्षणोद्दिष्टम् विज्ञास्यन्ति न खिति सम्बन्धः ; एतस्मिन् हिताहितलक्षणे मात्राद्यवस्थान्तरज्ञानं विना न हितत्वमहितत्वं वा हितानां रक्तशाल्यादीनामहितानां यवकादीनाञ्च ज्ञातुं पाते, मात्राद्यवस्थायाश्च दुर्ज्ञानत्वेन सर्व्ववैद्या ज्ञातुमक्षमा इति ॥ १६ ॥
For Private and Personal Use Only