________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८७४
चरक-संहिता। ( यज पुरुषीय: स्मृतिभ्रंशादयथार्थमिच्छा भवतीत्येवमात्मनो व्यापदि मनोव्यापदयथावतप्रत्तिभवति । आत्मसम्पदि तु यथावत मनःप्रत्तिः स्यादिति मनसः सम्पत्। रसव्यापत पुनरसात्म्याहारकृतदोषः। षधातुकसो व्यापत खल्वादिसर्गे हिंसाहिंसादिस्वभावयोगः परलोकभोगानवशेषप्रयुक्तगर्भानवक्रान्तिप्रभृतिः । मातृव्यापत्-दुष्टात्तैवगर्भाशययोनिभावः । अपत्यजननकम्मेफलस्याप्यभावासौष्ठचे। पितृव्यापच्च ते दुष्टशुक्रता च। कम्मेणो व्यापत् तु-असम्यककृतता पूव्वजन्मनि। स्वभावव्यापत--पूर्वकृततत्कर्मफलव्यापज्जातस्वभावता। विधातुापत्-अयथावत्कृतपूर्वजन्मकर्मफलायत्तता। कालव्यापत पुनः-कृतयुगादिस्वभावात क्रमेण वस्तूनां रसवीय्य विपाकप्रभावहासकृतस्वभावस्ततस्वभाववैपरीत्यञ्च। ततः क्रमेण पुसां बलवीर्यपराक्रमशीलाचारशौचविद्याबुद्धिदेहेन्द्रियशक्तिप्रभृतीनां हानिभवति। अशुभक्षणता च कालव्यापत। इत्येवं व्यापन्नेष्वात्मादिषु व्यस्तेषु समस्तेषु यथाहे व्याधयः स्युः। अव्यापन्नेषु तेषु सव्वसम्पदुपेतः पुरुषो जायते। समस्तेषु व्यस्तेषु तु यथातथं सम्पदुपेतः स्यादिति यज्जः पुरुषो न तज्जास्तस्य व्याधय इति सिद्धान्तः। __ अथात्र वयमाशङ्कामहे । श्रूयते यदयजुवेदीयतैत्तिरीयशाखायाम् उपनिषदि भृगुवल्ल्याम्-ईश्वरादेव खलु व्योमकेशात् परमात्मनो ब्रह्मणो भूतानां जन्मादि। न च तस्य व्यापदस्ति। कथम् ? तहि येषां भावानां सम्पन्नरं संजनयेत् तेषां व्यापद्विविधान् व्याधीन संजनयेदिति। तद्यथा भृगुवल्ल्यां श्रुतिः- "भगुवै वारुणिवरुणं पितरमुपससार। अधीहि भगवो ब्रह्मति । तस्मा एतत् प्रोवाच । अन्नं प्राणं चक्षुः श्रोत्रं मनो वाचमिति । तं होवाच यतो वा इमानि भतानि जायन्ते येन जातानि जीवन्ति यत् प्रयन्त्यभिसंविशन्ति तद्विजिज्ञासस्व तदब्रह्मति । स तपोऽतप्यत। स तपस्तप्वाऽन्नं ब्रह्मति व्यजानात्। अन्नाद्धव खल्विमानि भूतानि जायन्ते। अन्नेन जातानि जीवन्ति। अन्नं प्रयन्त्यभिसंविशन्तीति । तद्विज्ञाय पुनरेव वरुणं पितरमुपससार। अधीहि भगवो ब्रह्म ति। तं होवाच तपसा ब्रह्म विजिशासव। तपो ब्रह्मति। स तपोऽतप्यत। स तपस्तप्वा प्राणो ब्रह्मति व्यजानात्। प्राणाद्धव खल्विमानि भूतानि जायन्ते। प्राणेन जातानि जीवन्ति। प्राणं प्रयन्त्यभिसंविशन्तीति । तद्विशाय पुनरेव वरुणं मिति यज्जातीयानां, ते च महाभूतादयः ; तेन महाभूतत्वेनैव वातादीनां ग्रहणम् ; सम्पदिति
For Private and Personal Use Only