________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२५श अध्यायः सूत्रस्थानम् ।
८७३ पितरमुपससार। अधीहि भगवो ब्रह्मति । तं होवाच । तपसा ब्रह्म विजिशासव। तपो ब्रह्मति । स तपोऽतप्यत। स तपस्तप्खा मनो ब्रह्मति व्यजानात्। मनसो हेव खल्विमानि भूतानि जायन्ते मनसा जातानि जीवन्ति । मनः प्रयन्त्यभिसंविशन्तीति । तद्विशाय पुनरेव वरुणं पितरमुपससार। अधीहि भगवो ब्रह्म ति। तं होवाच तपसा ब्रह्म विजिशासव । तपो ब्रह्म ति। स तपोऽतप्यत। स तपस्तप्सा विज्ञानं ब्रह्म ति व्यजानात् । विज्ञानाद्धव खल्विमानि भूतानि जायन्ते। विज्ञानेन जातानि जीवन्ति । विज्ञानं प्रयन्त्यभिसंविशन्तीति । तद्विज्ञाय पुनरेव वरुणं पितरमुपससार । अधीहि भगवो ब्रह्म ति। तं होवाच तपसा ब्रह्म विजिशासख। तपो ब्रह्म ति। स तपोऽनप्यत । स तपस्तखानन्दो ब्रह्म ति व्यजानात् । आनन्दाघव खल्विमानि भूतानि जायन्ते। आनन्देन जातानि जीवन्ति । आनन्द प्रयन्त्यभिसंविशन्तीति। सैषा भार्गवी वारुणी विद्या परमे व्योमन् प्रतिष्ठिता। य एवं वेदेत्यादि ।” अत्र परमे व्योमन् प्रतिष्ठितेत्युपसंहारवचनेन शुक्रशोणितारम्भकानप्राणमनोविज्ञानानां भूतजन्मजीवनादिकारणत्वं निराकृत्य परव्योमरूपस्य परमात्मन ईश्वरस्य व्योमकेशस्योक्तस्तस्य निर्विकारस्य व्यापन्नं सम्भवति। कथं यजः पुरुषस्तजा न तस्य व्याधय इति स्यात्। इति खस्माकमाशङ्कति । ___ अत्रोच्यते तत्त्वविद्भिः। उक्तं श्वेताश्वतरोपनिषदि-“न तस्य कार्य करणश्च विद्यते न तत्समश्चाप्यधिकश्च दृश्यते। परास्य शक्तिविविधैव श्रूयते स्वाभाविकी ज्ञानवलक्रिया च ।” इति । तथा–“निष्कलं निष्क्रिय शान्तं निरवद्य निरञ्जनम् । अमृतस्य परं सेतु दग्धेन्धनमिवानलम् ॥” शरणमहं प्रपद्य इति पूच्ौक्तनान्वयः। इति। तस्य परमव्योम्नः शिवस्य परमात्मनः खलु काय्याभावो निष्क्रियत्वात्। वाङमनःशरीरप्रत्तिरूपक्रियाभावात् तस्य कार्याभाव उक्तः। पुनश्चोक्तस्तत्रैव-“स विश्वकृद्विश्वविदात्मयोनिश: कालकारोऽगुणी सर्व विद्यः। प्रधानक्षेत्रपतिगुणेशः संसारमोक्षस्थितिबन्धहेतुः ॥” इति मन्त्रे विश्वकृदिति। तथा तत्रव“छन्दांसि यशाः कवयो व्रतानि भूतं भव्यं यच्च वेदा वदन्ति। यस्मान्मायी सृजते विश्वमेतत् तस्मिंश्चान्यो मायया सनिरुद्धः” । इति मन्त्रेण मायाविशिष्ट प्रशस्त गुणता ; नरमिति संयोगिपुरुषम्, विपदिति वैगुण्यं, ससुदीरयेदिति जनयेत्। एतेषाञ्च ऋषिवादानां कथनं पूर्वपक्षसिद्धान्तश्रवणेन शिष्यसन्देहनिवृत्त्यर्थम् ॥ १३ ॥
For Private and Personal Use Only