________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२५श अध्यायः ]
सूत्रस्थानम् ।
वादान् सप्रतिवादांश्च वदन्तो निश्चितानिव । पक्षान्तं नैव गच्छन्ति तिलपीड़कगतौ ॥ मुक्तवैवं वाद संघट्टमध्यात्ममनुचिन्त्यताम् । नाविवृते तमःस्कन्धे ज्ञये ज्ञानं प्रवर्त्तते ॥ येषामेव हि भावानां सम्पत् संजनयेन्नरम् | तेषामेव विपाधीन् विविधान् समुदीरयेत् ॥ १३॥
८७३
मैवं रोचत । एवं भवन्तो मा रोचत । कस्मादिति ? अत आह—- तत्त्व हीत्यादि । हि यस्मात् तत्त्वं याथार्थ्य पक्षसंश्रयात् दुष्प्राप्यं भवति । कस्मादिति ? अत आह— वादानित्यादि । यस्माद वादिनः समतिवादान वादांश्च निश्चितानि वदन्तो नैव पक्षान्तं गच्छन्ति । तिलपीडकवद्गतौ । यथा तिलपीडकस्तिलानां गतौ नैवान्तं गच्छति । तस्मादेवं वादसंवद्धं तमःस्कन्धका मुक्त्वाऽध्यात्म्यमात्मानमधिकृत्य भवद्भिरनुचिन्त्यताम् । कस्मादिति ? अत आह—-नाविधूत इत्यादि । हि यस्मादविधूते तमःस्कन्धे सति शयेऽर्थे ज्ञानं न प्रवर्त्तते । प्रवर्त्तते तु खलु विधूत एव सति तमःस्कन्धे । इति ।
For Private and Personal Use Only
।
।
इत्येवमुक्त्वा पुनर्व्वसुः स्वयमत्र तत्त्वमाह - येषामित्यादि । येषां भावानां सम्पत खल्ववैगुण्यं नरं संजनयेत् तेषामेव भावानां विपत् खलु वैगुण्यं विविधान् व्याधीन समुदीरयेत् संजनयेत । अव्यापन्ना होते भावाः खलु नरं संजनयन्ति । आत्मा च मनश्च रसश्च षड्वातुकच मातापितरौ च कम्मे च स्वभावश्च ब्रह्मा च कालश्चेति । व्यापन्नाश्चैते तस्य नरस्य विविधान् व्याधीन् संजनयन्ति | न व्यापन्न एषामेकैको भावो नरं संजनयति । व्यापन्नो वाप्येकैको व्याधीन् संजनयतीति । तत्रात्मनः सम्पत् खलु परलोकभोगावसानं जन्मकारणीभूत कम्मे कलपरिणामश्च । ततो जातस्यात्मनो व्यापत खल्वशुभकम्मे कलाक्रमजातस्वभावविशेषः । ततश्च प्रज्ञापराधाद् धीधृतिधारणरूपं पक्षान्तम्; तिलपीड़कस्तैलार्थं यन्त्रोपरिस्थितो मनुष्यः, तिलपीड़को यथा, - गतौ गमने सति गम्यदेशाप्राप्तया चान्तं नासादयति, पुनस्तत्रैव भ्रमणात्; तथा - पक्षसंश्रयाद् वादिनोऽपीत्यर्थः ; सङ्घट्टोऽन्योन्यपीड़को मेलकः; अध्यात्मं तत्त्वम्; स्कन्धः समूहः; पक्षराग चेह तत्त्वज्ञानप्रतिबन्धकत्वेन 'तमःस्कन्धः' उच्यते । सिद्धान्तमाह-येषामित्यादि 1 येषा