________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८७२ चरक-संहिता।
[ यजःपुरुषीया तन्नेति भिक्षुरात्र यो न ह्यपत्यं प्रजापतिः । प्रजाहितैषी सततं दुःखैर्यु यादसाधुवत् ॥ कालजः पुरुषस्त्येव कालजास्तस्य चामयाः। जगत् कालवशं सर्व कालः सर्वत्र कारणम् ॥ १२ ॥ तथर्षीणां विवदतामुवाचेदं पुनर्वसुः।
मैवं रोचत तत्त्वं हि दुष्प्राप्यं * पक्षसंश्रयात् ॥ प्रथममर्द्धन नारी भूलार्द्धन पुरुषो भूवा विराजमसृजदित्येवं प्राग्दशितं मनूक्तमिति। तथा चेतनाचेतनस्य देवनरादेटे क्षादेश्च जगतः सुखदुःखयोश्चायं ब्रह्मा सृष्टा । सुखमारोग्य दुःखं विकारः। तन्मनूक्तं प्रागदर्शितम्–'द्वन्द्वरयोजयच्चेमाः सुखदुःखादिभिः प्रजाः' इति। प्रथमसर्ग एव सुखदुःखादियुक्ताः प्रजाः सूक्ष्मा ब्रह्मणा सृष्टा इति ॥११॥ - गङ्गाधरः-तत् काङ्कायनवचनं श्रुखा आत्रेयो भिक्षुस्तन्न इत्याह । कस्मात् ? तत आह-न ह्यपत्यमित्यादि। प्रजाहितैषी प्रजापतिर्ब्रह्मा हि यस्मादसाधुवत् सततमपत्यं दुःखैने युज्यात् । यच्च मनुनोक्तं द्वन्द्वः सुखदुःखादिभिरिमाः प्रजा अयोजयदिति, तदादिसर्गे' समशरीरिप्रजाः सुखदुःखादिद्वन्द्वभाकशीलताभिरयोजयदिति। यो हितमाचरेत् स सुखं भुञ्जीत यस्वहितं स दुःखमिति। तस्मात्तु ब्रह्मा प्रथममपत्यं विराज विना नान्यदपत्यं सृजति न च रोगस्य कारणमिति। तहिं कस्मात् पुरुषो जायते कस्माद्वा तस्य रोगा इति ? अत आह-कालज इत्यादि। पुरुषः कालजः कालविशेषाज्जायते। तस्यामयाश्च कालजाः कालाजायन्ते। जगत् सबै कालवशम् । तस्मात् सव्वत्रैव कालः कारणं भवति ॥ १२ ॥
गङ्गाधरः-तथर्षीणां विवदतां निरुक्तरूपेण विवदमानानामृषीणां पारीक्षिप्रभृतीनां विवादं श्रुत्वा पुनव्वसुरात्रेय इदमुवाच। किमुवाच तदाहसङ्कल्प इति युगपदपरिमितस्थावरजङ्गमरूपकार्यकर्तृत्वेनापरिमिततजननसङ्कल्प इत्यर्थः । असाधुवदित्यसाधुरिवापत्यद्रोहकारी ॥ ११॥१२॥
चक्रपाणिः-पक्षसंश्रयादिति रागतः पक्षसंग्रहात् ; निश्चितानिवेति परमार्थतोऽनिश्चिता एव, परं पक्षरागात् बुद्धिप्रकर्षान्निश्चिता इवाभिधीयन्ते पक्षा इत्यर्थः । पक्षान्तमिति सम्यगाव
* रोचत इत्यत्र वोचत तथा दुष्प्राप्यमित्यत्र दुष्प्रापम् इति चक्रः ।
For Private and Personal Use Only