________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२५श अध्याय: सूत्रस्थानम् ।
८७१ भावहेतुः स्वभावस्तु व्याधीनां पुरुषस्य च । खरद्रवचलो णत्वं तेजोऽन्तानां तथैव हि ॥१०॥ काङ्कायनस्तु नेत्याह न ह्यारम्भफल भवेत्।। भवेत् स्वभावाद भावानामसिद्धिः सिद्धिरेव च ॥ स्रष्टा त्वमितसङ्कल्पो ब्रह्मापत्यं प्रजापतिः।
चेतनाचेतनस्यायं कारणं * सुखदुःखयोः॥ ११॥ योनिषु ब्राह्मणादिवर्णतया जातोऽपि कश्चिद्धिंसः कश्चिदहिंसः कश्चिन्मृदुः कश्चित् क्रूरः कश्चिद्धार्मिकः कश्चिदधाम्मिकः कश्चित् सत्यवादी कश्चिन्मिथ्यावादीत्येवमादि विशेषो भवति। इत्येवञ्चेदुच्यते तत्राह-भावहेतुरित्यादि । योऽसौ प्रथमसर्गे नारायणेन हिंसाहिंसादिभियों नियुक्तः स खलु हिंसादिको धर्मः स्वभाव उच्यते । न कर्म । स एव स्वभावो नाम पुरुषस्य भावहेतुर्व्याधीनाञ्च भावहेतुरिति । तत्र दृष्टान्तः-खरेत्यादि । हि यस्माद् यथैव तेजोऽन्तानां भूजलानिलतेजस क्रमेण खरखादयः स्वभावाः आदिसर्गे तथैव सृष्टखात् ॥१०॥
गङ्गाधरः-तद्भरद्वाजवचनं श्रुखा काङ्कायनो तन्ने त्याह वाहीकभिषक् । कस्मात् ? तत आह-न ह्यारम्भेत्यादि । हि यस्मादिह पुरुषेणारभ्यते यदयत् कम्प्रे तस्य तस्यैवारम्भस्य शुभस्याशुभस्य वा तथाविधं शुभमशुभं वा फलं भवे। न स्वभावादेव भावानां शुभाशुभानां सिद्धिरसिद्धिर्वा भवेत् । तस्मान स्वभावजः पुरुषः स्वभावजा व्याधयः । किं तर्हि तयोः कारणमिति ? अत आह-सृष्टा खित्यादि। अमितसङ्कल्पो ब्रह्माऽसौ नारायणः प्रजापतिरपत्यं सष्टा यथा सूक्ष्मशरीरिणां सष्टा तथा राशिसंशमपत्यश्च सष्टा इत्यर्थः, यस्मात् शुभाशुभकर्म क्रियाजन्यमेव धर्माधर्मरूपं सर्व भवतीति भावः ; भावहेतुरुत्पत्तिहेतुः । स्वाभाविकत्वे दृशान्तमाह-खरेत्यादि। तेजोऽन्तानामिति "खरद्रवचलोष्णत्वं भूजलानिलतेजसाम्" इत्यादि वक्ष्यमाणक्रमेण भवेत् ॥ १० ॥
चक्रपाणिः-स्वभावादित्यत्रादौ 'यदि" इत्यध्याहर्त्तव्यम्, तेन यदि स्वभावादेव भावानां विकारशरीरादीनां सिद्धयसिद्धी भवतः, तदा आरम्भफलं न भवेत्, स्वाभाविकत्वाद् भावानाम् ; य इमे लोकशास्त्रसिद्धा यागकृष्यध्ययनाद्यारम्भास्ते निष्प्रयोजना भवेयुरकारणत्वादित्यर्थः । स्रष्टेत्यादौ-जगतः सुखदुःखयोश्च स्रपा प्रजापतिरिति योजना ; स च ब्रह्मणोऽपत्यम् ; अमित.
* चेतनाचेतनस्यास्य जगत इति वा पाठः ।
For Private and Personal Use Only