________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चरक-संहिता।
यजःपुरुषीयः भरद्वाजस्तु नेत्याह कर्त्ता पूर्व हि कम्मणः ।
दृष्टं न चाकृतं कम्म यस्य स्यात् पुरुषः फलम् ॥ सर्व एव कर्मजः शुभाशुभकर्मफलदवजः। तस्य च रोगाः कर्मजा एव । कस्मात् ? तत आह-न ह्यत इत्यादि । हि यस्मात् कर्मणः शुभाशुभलक्षणाद्वाङ्मनःशरीरारम्भाद वैधावैधाहते पुरुषस्य रोगाणां वा न जन्म स्यात्। कम्मे हि सद्यःफलं कालान्तरफलश्च । सद्यःफलमाहाराचारादि. कालान्तरफलश्च तथा यशादिवैधमवैधञ्च पापकर्मेति ॥९॥
गङ्गाधरः- तद्भद्रकाप्यवचनं श्रुखा तन्नेत्याह भरद्वाजः कुमारशिराः। कस्मात् १ कर्त्ता पूर्व हि कर्मण इत्यादि । हि यस्मात् कम्मणः पूर्व राशिपुरुषः कास्ति स कुतो जातः? नन्वस्त्यकृतं प्रसिद्ध कर्म ततः पुरुषो जायत इति चेत् तत्रोच्यते-दृष्टमित्यादि। यस्य कर्मणः फलं पुरुषः स्यात् पुनज्जन्म पुरुषस्य स्यात् तत् कम्मे न खल्वकृतं योगिभिदृष्टं कम्र्मणः कत्तुं स्तस्य जन्म कुतः कर्म स्यान्न च किमपि पूर्व तत् पुरुषेणाकृतमस्ति। तस्मान्न कम्मंजः पुरुषः। सत्यञ्च तत्। यः पुरुषः प्रथमो जातस्तस्य तत्प्रथमजन्मनो हेतुर्नारायणकृतमेव दैवं न स्वकृतम्। तत्र जन्मनि यत स्वकृतं कम्म तत्फलं तस्य पुनर्जन्म। तस्मात् कम्मेजः पुरुषः। उक्तञ्चैतत् मनुना तद्दर्शितमग्र-“सर्वेषान्तु स नामानि कर्माणि च पृथक् पृथक्” इत्यारभ्य “कम्मेणाञ्च विवेकार्थ धमाधम्मौ व्यवेचयत्” इत्यादिना। तथा चासौ नारायणो महान् ब्रह्मा मूक्ष्मशरीरिणः पुरुषान् सृष्ट्वा पृथक पृथक नामानि देवनरपशुपक्षिप्रभृतीनि तेषां नामानि कर्माणि देवानां नराणां पशुपक्ष्यादीनां पृथक पृथक् निम्मेमे । तत्र हिंसाहिंसमृदुरधम्माधम्मसत्यानृतादिद्वन्द्वकर्माणि सृष्ट्वा यस्मिन् कर्मणि .यं सूक्ष्म पुरुषं तत् प्रथमसर्गकाले नियुक्तवान। स पुमान पुनःपुनर्जायमानः स्वयमेव तत् कम्म भजते । तच्च कर्म तं स्वयमाविशति । तत् कम्मणाश्च फलस्य विवेचनार्थ धमाधम्मो स नारायणो विवेचयाञ्चकार । इति तन्नारायणब्रह्मणा कृतकर्मवशाजातः परुषो देवनरादि
चक्रपाणि:-कर्ता पूर्व हीत्यादि। कर्मणः पूर्व कर्ता भवतीति शेषः, येन कर्मणा स पुरुषः कर्त्तव्यः, तस्य कर्मणः पुरुषपूर्वभाविकत्वात् कारणत्वं स्वीकर्तव्यम्, ततश्च स चेद विना कर्म पुरुषोऽभूत, कथं पुरुषस्य कर्म कारणमिति भावः ; अथ शङ्कयते-अकृतमेवादी पुरुषजनक कर्म भविष्यतीत्याह-वृष्टं न चेत्यादि। अकृतं कर्म न दृष्टं प्रमाणेन नोपलब्धम्
For Private and Personal Use Only