________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२५श अध्याय:]
सूत्रस्थानम्।
८६६ 'भद्रकाप्यस्तु नेत्याह न ह्यन्धोऽन्ध प्रजायते। मातापित्रोरपि च ते प्रागुत्पत्तिन जायते * ॥ कर्मजस्तु मतो जन्तुः कर्मजास्तस्य चामयाः ।
न हाते कम्मणो जन्म रोगाणां पुरुषस्य वा ॥६॥ अदुष्टार्तवरेतसोः ऋतुकाले मातुरदुष्टगर्भाशयायाः पित्रा सह संयुक्ताया गर्भाशयगतं रेतो यदात्तवेन संयुक्तं भवति तदा षड्धातुः सूक्ष्मशरीरी वीजधान्त. गर्भमवक्रम्य प्रविश्य पूर्वमाकाशादीन् पञ्चमहाभूताख्यान् धातून सृजति । ततः पितृजशुक्रगतपञ्चमहाभूतमातृशोणितगतपञ्चमहाभूतमातृभुक्तगतपञ्चमहा. भूतानि चेत्येवं चतुर्विधपञ्चाकाशादिधातवः सूक्ष्मशरीरी चात्मेति षड्भ्यो जायते पुरुषस्तेभ्य एव च रोगा आदिवलप्रवृत्ताः कुष्ठार्शःप्रभृतयः शुक्रशोणितदोषान्वयाः पितृजाश्च मातृजाश्चेति द्विधा ॥८॥
गङ्गाधरः-इति शौनकिवचनं श्रुत्वा भद्रकाप्यस्तु तन्नेत्याह। कस्मात् ? न ह्यन्धोऽन्धं प्रजायते इति। हि यस्मादन्धो नान्धं पुरुषः पुरुषं गौर्गामश्वो वाश्वं प्रजायते। तस्मान्न मातापितृभवा राशिपुरुषाः। अपि च ते तव मातापित्रोः प्रागुत्पत्तिने युज्यते। तयोरपि मातापितरौ, तयोरपि मातापितरावित्येवं वीजभूतयोस्तयोरमातापितृभवसमन्तरेणोपपत्तिने स्यादिति । सत्यम् । वीजभूतौ मातापितरौ न मातापितृजौ भवतः। तदुक्तं मनुना तत्र नारायणस्योत्पत्तिरण्डमध्यतो दर्शिता तेन नारायणेन च सृष्टानि शूद्रान्तानि सूक्ष्माणि दर्शितानि स्थूलपुरुषसर्गश्चोक्तः–“द्विधा कृखात्मनो देहमढेन पुरुषोऽभवत् । अद्धेन नारी तस्यां स विराजमसृजत् प्रभुः ॥ तपस्तप्वाऽमृजदयन्तु स स्वयं पुरुषो विराट्। तं मां वित्तास्य सव्वस्य सृष्टारं द्विजसत्तमाः॥” इति । एवं तर्हि चामातापितृजश्च स वीजपुरुषो नारायण इत्यनेकान्तो नाशङ्काः स हि न राशिसंशः पुरुषः। विराडादयस्तु राशिपुरुषा इत्येवमुपपत्तौ चाह(देवनरादि विशेषोपपत्तिर्नस्यात् तस्मादुच्यते ) कर्मजस्वित्यादि। जन्तुस्तु
चक्रपाणिः-न ह्यन्ध इत्यादि। मातापितृकारणत्वेऽन्धेन जातोऽन्धः स्यादित्यर्थः । हेत्वन्तरमाह-मातापित्रोरपीत्यादि। ते तव मातापितृकारणवादिनः, प्रागिति सर्गादौ निःशरीरिणि मातापित्रोरुत्पत्तिर्न स्यात्, सर्गादौ निःशरीरिण्यादिभूतयोर्मातापित्रोरभावादुत्पादो नोपपन्न इति भाव: ॥९॥ * युज्यते इति द्वितीयः पाठः ।
For Private and Personal Use Only