________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८६८
चरक-संहिता।
( यज पुरुषीयः तदुक्तवन्तं कुशिकमाह तन्नेति शौनकिः । कस्मान्मातापितृभ्यां हि विना षड्धातुजो भवेत् ॥ पुरुषः पुरुषं गौर्गामश्वोऽश्वन्तु प्रजायते ।
मातापितृभवाश्चोक्ता रोगास्तावत्र कारणम् ॥ ८॥ * इति पञ्चमहाभूतमनःपञ्चकर्मेन्द्रियपञ्चबुद्धीन्द्रियाहङ्कारा इति सप्तदशकं लिङ्गं महत आत्मनः सूक्ष्मशरीरमव्यक्तस्यात्मनः सह महताष्टादशकं लिङ्गमिति। पञ्च शब्दादयश्च महाभूतसहचरितवान पृथगुक्ताः। अत एव तेषां महौजसां सप्तानां बुद्धीन्द्रियाणां पञ्चानामहङ्कारस्य महतोऽव्यक्तानुप्रविष्टमहतश्चात्मनश्च सूक्ष्माभ्यो मूत्तिमात्राभ्यः खल्वव्ययादस्मात् सूक्ष्मशरीराद्वायं स्थूलशरीरं सम्भवतीति । तदव्यक्तानुप्रविष्ट एव महानात्मशब्देनोच्यते। स हि चेतनाधातुः पञ्च महाभूतानीति षड्धातवः पुरुषस्योत्पत्तो कारणानि रोगाणाञ्च कारणानि। इत्येवमाद्यः साङ्खः परीक्षितः । इति ॥७॥
गङ्गाधरः-तदित्येवमुक्तवन्तं कुशिकं हिरण्याक्षं शौनकिराह । तन्नेति । तत्र प्रश्नमाह-कस्मादित्यादि। सूक्ष्मशरीरी पड्धातुः पुरुषो भवतु वीजधर्मा। तस्मादेव केवलात मातापितृभ्यां विना कस्मादेष राशिः स्थूलपुरुषो जातो भवेत् ? मातापितृभ्यां विना स्वेदजा उद्भिजा जायन्त इति दृश्यते इति चेत् तत्राह-पुरुष इत्यादि। न खलु सर्वे प्राणिनः स्वेदजोद्भिजवद विना मातापितृभ्यां जायन्ते। पुरुषो देवनरादिस्तद्विधमेव पुरुषं प्रजायते उत्पादयति । न तु गामश्वं वा। गौश्व गां प्रजायते न देवनरादिपुरुषमश्वं वा। अश्वश्चाश्वं प्रजायते न देवनरादिपुरुषं गां वान्यं वेति। तस्मान्मातापिडभवाः पुरुषा रोगाश्च मेहादयो मातापितृभवा उक्ताः। अत एव तौ मातापितरौ खल्वत्र पुरुषोत्पत्तौ रोगोत्पत्तौ च कारणम् । तद्यथा--मातापित्रोः
चक्रपाणिः--कुशिक इति हिरण्याक्षस्य नाम । कस्मादित्याक्षेपे, मातापित्रनपेक्षित्वे सर्वप्राणिपु एड,धातुसमुदायस्य विद्यमानत्वेन नरगोऽश्वादिभेदो न स्यादिति भावः । हेत्वन्तरमाहपित्रया मेहादयश्चोक्ता इति ;-पितृतोऽपत्यं गच्छन्तीति पित्रयाः, आदिशब्देन कुष्ठार्श-प्रभृतयो प्रायाः ; स्वपक्षं दर्शयति-तावत्र कारणमिति, तौ मातापितरौ ॥ ८ ॥
* पुरुषः पुरुषाद् गौरिश्वादश्वः प्रजायते। पित्र्या मेहादयश्चोक्ता रोगास्तावत्र कारणम् ॥ इति चक्रसम्मतः पाठः ।
For Private and Personal Use Only