________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२५श अध्यायः सूत्रस्थानम् ।
८६१ शक्त्या क्षोभ्यमाणादोमिति ध्वनिरभूत्। तदोङ्कारस्तु सत्। तन्निरुक्तं तस्याकारोकारमकारयोगेण संहितायां निरुक्तिरुक्ता। तस्मादोङ्कारात् क्रियाशक्त्या क्षोभितादकारादयो मातृकावणेध्वनयो बभूवुरिति मातृकावर्णास्त्यत् तदोङ्कारविपर्ययं तदेवेति त्यत् । नैपामकारादीनां निरुक्तिरस्ति ततोऽनिरुक्तम् । इति। सैपा प्रणवमातृकात्मिका देवी शुद्धा परा विद्या तस्य पुरुषस्य वागीश्वरी नाम शक्तिः । सैवेयं बभूव । तदुक्तं-“पञ्चाशल्लिपिभिविभक्तमुखदोःपन्मध्यवक्षःस्थलां भावन्मौलिनिबद्धचन्द्रशकलामापीनवक्षोरुहाम्। मुद्रामक्षगुणं सुधाढ्यकलसं विद्याञ्च हस्ताम्बुजैविभ्राणां विशदप्रभां त्रिनयनां वागदेवतामाश्रये ॥” इति ।
तत्तदोङ्कारादिवर्णात्मकध्वन्याश्रयो यावानसौ परमव्योमभागः स एब सदाशिवो नाम महाभूतः प्रथमो ब्रह्मपुरुषो बभूव । तद्विज्ञानं नाम सत्। एष तत् परमपुरुषस्य हृदये यदद्ध सुषिस्तद्वहिरपालः शिवस्योदानो नाम प्राणः। एष एव लोके त्रिगुणविशेषयोगादयमाकाशोऽभूदयश्च वायुरभूत् । पुरुषे चास्य हृदयस्य मध्ये य आकाशः स आत्मा, पञ्च च तद्वच्छिद्राणि सन्ति। तत्रोद्धच्छिद्राद्वहिरुदानो नाम प्राणस्तिष्ठति। अथासां या शुद्ध विद्या सा पुनः क्रियाशत्त्या क्षोभ्यमाणा परिणमन्ती अकारादीनामनन्तसंयोगात् कला विद्या तच्छुद्धविद्याविपरीतविद्या खल्वविद्या नाम वभूव । इति । कलां विद्यामविद्यां त्यद्र पामसृजत् । सा चतुर्दा-ऋग्विद्या यजुविद्या सामविद्याऽथव्वे विदेशति । तत्र प्रथमा धातुप्रातिपदिकमत्ययागमादिरूपा ऋग्विद्या बभूव । ततः सुपतिङन्तपदरूपा यजुविद्या । ततो गीतभूतवाक्यरूपा सामविद्या । ततो वाक्यभूताथव्वविद्या च बभूवेति तत्रान्तर्भूतानि पड़ङ्गानि । सा च निरुक्तिमती चानिरुक्तिमती च। सच त्यच्च। एतच्तु विद्याश्रयास्तत्तत्परमव्योमभागा ऋग्वेदयजुवेदसामवेदाथर्ववेदा बभूवुरिति । वेदाश्चत्वारो ब्रह्मपुरुषा विज्ञानविपरीता अविज्ञानरूपास्त्यदित्युच्यन्ते। नियति म हि वेदचतुष्को नियमकरसात् । तस्मानियतिने ब्रह्म । स्वभावश्च यस्य यो भवति तं यदृच्छया बुद्धिशक्त्याध्यवसितो नियतः कृत इति स्वभावो न ब्रह्म। यदृच्छा च न ब्रह्म । ब्रह्मणः शक्तिविशेषत्वात् । उक्तश्च “द्वे ब्रह्मणी ब्रह्मपरे खनन्ते विद्याविदा निहिते यत्र गृढ़े। क्षरन्त्वविद्या अमृतन्तु विद्या विद्याविदा ईशते यस्तु सोऽन्यः ॥” इति । चखार एते वेदा ब्रह्मपुरुषास्तस्य हृदयस्य पूर्चदक्षिणपश्चिमोत्तरमुषिषु क्रमेण द्वारपालाः। तद्यथा-“योऽस्य पूर्वसुषिस्तस्मादहिःस्थितो द्वारपाल ऋग्वेदः ।
For Private and Personal Use Only