________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८६२ चरक-संहिता।
यजःपुरुषीयः शिवस्य तस्य प्राणः स एवास्मिन् लोके एप आदित्यः पुरुष देवनरादौ वाह्यचक्षुश्च अभूत्। प्राणश्च हृदयस्य पूर्वसुषिद्वारे । योऽस्य दक्षिणसपिस्तस्मादहिःस्थितो द्वारपालो यजुवेंदः। स तस्य शिवस्य व्यानो नाम प्राणः। स एतस्मिन लोके चन्द्रमाः पुरुषे च देवनरादो हृदयस्य दक्षिणसुषो व्यानाख्यः प्राणः श्रोत्रश्च । २। योऽस्य प्रत्यङ् सुषिस्तस्माद्वहिःस्थितो द्वारपालः सामवेदः । स तस्य शिवस्याषानो नाम प्राणः। स एवास्मिन् लोकेऽग्निः पुरुषे देवनरादौ हृदयस्य पश्चिमसुषिद्वारेऽपानो नाम प्राणो वाक् चेति । ३। अथ योऽस्योदङ सुषिस्तस्माद्वहिःस्थितो द्वारपालोऽथर्ववेदः। स शिवस्य समानो नाम प्राणो मनश्च। स एवास्मिन लोके पर्जन्यो वर्षणोद्यतमेघः। पुरुषे च देवनरादौ हृदयस्योत्तरसुषिद्वारे समानो नाम प्राणो भवतीति । ४।” इत्येवं पञ्चसदाशिवग्वेदादीन् 'कुमारान् सावित्री सुषुवेऽतः सावित्री परमव्योम च शिवस्तया सुषुवेऽतः सविताऽभिधीयते।
अथैषां पञ्चानां यशस्तेजइन्द्रियवीर्यान्नार्थ पुन ह्यादयस्तपस्तेपुः। तदयथा-"तस्य हृदयाभ्यन्तरे स्थितं गायत्रीस्थं यत्तेजोऽवन्नमेवामृतं तत्र या आपो मधुररस इव यो रसस्तत् पुष्पम् । स एव खल्च ऋग्वेदमभ्यतपन्नृचः ततस्तस्यर्वेदस्य यशस्तेज इन्द्रियं वीर्यञ्चेत्येतेषु जातेपु पुष्पञ्च परिणमन्नन्नमम्ल इवारसोऽजायत । तद् यत् पूर्वसुषिद्वारादक्षरत् । तज्जयोतीरूपेण तदा दित्यं हृदयेऽभितो मण्डलरूपेणाश्रयत्। तदेव सत्त्वगुणयोगादेतदादित्यस्य मण्डले शुक्लरूपं सदस्ति । १। एवं यजू पि यजवंदमभ्यतपन। ततस्तस्य यजुर्वेदस्य यशस्तेज इन्द्रियं वीय्येमजायत । स एव चरसः परिणमन् लवण इव रसोऽन्नाद्यमजायत, तद्यदक्षिणसुषिद्वारेणाक्षरत्तत्तदादित्यं शिवं हृदयेऽभितो ज्योतीरूपं मण्डलाकारणाश्रयत्। तद्वा एतद् यदेतदादित्यस्य मण्डले रजोगुणयोगाद्रक्तं रूपं सदस्ति । २ । एवं सामानि सामवेदमभ्यतस्ततस्तस्य सामवेदस्य यशस्तेज इन्द्रियं वीर्यमजायत। स एव च रसः परिणमन् कटुक इव रसोऽन्नाद्यमजायत । तद् यत् पश्चिमसुपिद्वारेणाक्षरत्तत्तदादित्यं शिवमभितो हृदये ज्योतिःस्वरूपेण मण्डलाकारं भूखाश्रयत्। तद्वा एतद् यदेतदादित्यस्य मण्डले सत्त्वतमोगुणयोगात् श्यामरूपं सदस्ति । ३ । अथाथर्वाङ्गिरसा इतिहासपुराणमभ्यतपन्। ततस्तस्येतिहासपुराणस्य यशस्तेज इन्द्रियं वीर्यमजायत। स एव च रसः परिणमंस्तिक्तरस इव रसोऽन्नाद्यमजायत । तद्यदुत्तरसुषिद्वारेण अक्षरत्तत्तदादित्यं शिवमभितो ज्योतीरूपेण हृदये मण्डलाकारणाश्रयत् । तद्वा
For Private and Personal Use Only