________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८६० चरक-संहिता।
[यजापुरुषीयः भूलॊकसहितं भुवलॊकं सबतो वृत्त्वात्य स्वाङ्गलिमानेन दशाङ्गलं स्वर्लोको भूभु वलौकादतिशयेनातत्वेनोत्कृष्टत्वेनातिष्ठदिति। तत्र दशाङ्गलिमितायां दिवि त्रिपादस्य पुरुषस्य तृतीयपाद परव्योम्नि अमृतं ज्योतिःस्वरूपा गायत्री चतुर्थः पाद इति।
अथ यथास्य द्वा पादौ विश्वानि भूतानि वभूवुर्यथा च स भूमि भुवलौकमाणोत् । तद्यथा-तस्यैव परमव्योम्नः पुरुषस्य स्वाङ्गुलिमानेन चतुरशीत्यङ्गलिपरिमितस्य यदृद्ध, दशाङ्गुलं तच्छिरोग्रीवमिवोच्यते। तद्दशाङ्गुलादधस्ताच्चतुर्विशत्यङ्गलं कण्ठादिनाभिपय्येन्तमन्तराधिरिवोच्यते भुवोकः । तत्र कण्ठायधस्तादद्वादशाङ्गलं हृदयं तदभ्यन्तरे यदतिपरमव्योम तत्र पञ्च देवसुषयः। ऊर्द्ध मेका सुपिः पूव्वेस्मिन्नेका दक्षिणस्मिन्नेका पश्चिमे चैका उत्तरस्मिंश्चका मध्ये यदतिपरमव्योम सा शक्तिब्रह्म तस्यात्मा वर्तते। तदुक्तं-“हिरण्मये परे को विरजं ब्रह्म निष्कलम् । तच्छुभ्र ज्योतिषां ज्योतिस्तद् यदात्मविदो विदुः ॥” ___ इत्येवं स्वयमेवाभूत् स इति स्वयम्भूयथा ससज्ज । तदुक्तं मनुना-“ततः स्वयम्भूभंगवानव्यक्तो व्यञ्जयन्निदम्। महाभूतादिवृत्तौजाः प्रादुरासीत् तमोनुदः॥” इति। तद्यथा-अथासौ भगवानव्यक्तः स्वयम्भूः परमव्योमरूपोऽनन्तशक्तिमानुत्तमपुरुषोऽकामयत बहु स्यां प्रजायेयेति । ततः स तपोऽतप्यत। स तपस्तप्त्वा इदं सर्वमसृजत। यदिदं किञ्च तत् सृष्ट्वा तदेवानुप्राविशत् । तदनुप्रविश्य सच्च त्यच्चाभवत्। निरुक्तञ्चानिरुक्तश्च । निलयनञ्चानिलयनश्च। विज्ञानञ्चाविज्ञानश्च। सत्यश्चानृतश्च । सत्यम् अभवत् । यदिदं किञ्च तत् सत्यमाचक्षत इति । तद्यथा--असौ खल्वनन्तशक्तिमान् परनव्योम परमात्मा व्योमकेशस्तत् तपोबलेन स्वशक्तिषु प्रधानानां तिसणां ज्ञानशक्तियदृच्छाशक्ति क्रियाशक्तीनां प्रथमज्ञानशक्त्या करिष्यमाणानाश्च यत् प्रयोजनं यत् कारणं यत् करणञ्च तदेवाध्यवसाय यहच्छया शक्त्या बुद्धग्राध्यवसितं तदेवमेव स्यान्नैवं स्यादित्येवमभ्यनुमन्यत । ततस्तस्य क्रियाशक्तिस्तस्य दशाङ्ग लादधस्ताच्चतुःसप्तत्यङ्गुलिमिते परमव्योम्नि ज्योतिःस्वरूपेण स्थिताया अतिसूक्ष्मध्वनिरूपाया वाचो गायत्रया यास्तेजोऽवन्नाख्यास्तिस्रो देवताः परिणामिनीस्ताः क्षोभयामास । तेन त्रित्तिदेकैका भूत्वैकीभूय तत् परमामृतवागेव किञ्चित् स्थूलीभूय नादोऽभूत् । पुनस्तं नादं सा क्रियाशक्तिः क्षोभयामास। तेन नादात् क्षोभ्यमाणाद्विन्दुर्वभूव । विन्दौश्च पुनः क्रिया
For Private and Personal Use Only