________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२५श अध्यायः |
सूत्रस्थानम् ।
८५ह
तस्य
चतुरशीत्यङ्गुलिपरिमित त्रिधाविभागकल्पनया भूर्भुवः स्वरिति त्रिपात् पुरुषः । तस्याधस्तात् पञ्चाशदङ्गुलिपव्योम भूः । तदूर्द्ध चतुर्व्विशत्यङ्गुलिपरव्योमे भुवः । तदर्द्ध दशाङ्गलिमितपरमव्योम स्वरिति । तत्र भूर्लोfast लोकाः । एतत्सप्तपातालसहितभूर्लोकः । आन्तरीक्षन्तु भुवर्लोकः । वस्तु इन्द्रादिदेवलोकः । महलको जनलोकः तपोलोकः सत्यलोकश्चेति सप्तलोकादृद्धं प्रकृतेः परं विष्णुलोकोमो लोकः । इत्यष्टलोकी भूलकः प्रथमः पादः । तत् पञ्चाशदङ्ग लिमितपरव्योम्न ऊर्द्ध चतुर्व्विशत्यङ्गुलिपरिमितं परव्योम कौमारलोकः । पञ्च ब्रह्मपुरुषा ऋग्वेदयजुर्वेद सामवेदाथर्ववेदसदा शिवानां स्थानं भुवर्लोको द्वितीयः पादः । इति द्वौ पादौ विश्वानि भूतानि । तत ऊर्द्ध दशाङ्गुलं वर्लोकः सा यस्तृतीयः पाद इति त्रिपात् परमव्योमैव शिवः परमपुरुषः परमात्मा हिरण्मयः पष्ठः कोषः । हृदयातिपरमव्योम्नि तस्य चात्मा सा शक्तिरजा तिष्ठति यास्यां सर्गावस्थायां तेजोऽवन्नलक्षणा गायत्री तस्य ज्योतिः स्वरूपेण भाति सा खल्वमृतं तस्मिन् परमे व्योम्नि सव्र्व्वतो वत्ततेऽभ्यन्तरतश्च वाह्यतश्चाधस्ताचोर्द्धतश्च पूर्व्वतश्च दक्षिणतश्च पश्चिमतचोत्तरतश्चेति । सा चतुर्थः पाद इति गायत्रीविशिष्टत्रिपात्पुरुषश्चतुष्पाद्ब्रह्माऽस्यां सर्गावस्थायाम् । प्राक् सर्गान्महानिर्वाणावस्थायां सैका शक्तिमूलं ब्रह्म, यदुक्तम् “असद्वा इदमग्र आसीत्" इति, न तदा पादव्यपदेशो भेदकाभावात् । उक्तञ्च - “एतावानस्य महिमा ततो ज्यायांश्च पूरुषः । पादोऽस्य विश्वा भूतानि त्रिपादस्यामृतं दिवि” इति । अत्र पाद इति औस्थाने सुः पादावित्यर्थः । उक्तञ्च तथा-"सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् । स भूमिं सव्र्व्वतो वृत्त्वा अत्यतिष्ठद्दशाङ्गुलम् ।।” इति । अत्र सहस्रपादेनासत्यं विवक्षितम् । तत उक्तम् - "सर्व्वतः पाणिपादं तत् सर्व्वतोऽक्षिशिरोमुखम् । सर्व्वतः श्रुतिमल्लोके सव्यमाहत्य तिष्ठति ।। " इति । शीर्षाक्षिपादादिकं नास्य लोकवव्याकृतम् । तदुक्तं“सचेन्द्रियगुणाभासं सव्वैन्द्रियविवज्जितम् । सव्र्व्वस्य प्रभुमीशानं सर्व्वस्य शरणं वृहत् ||" सर्व्वेन्द्रियगुणाभासत्वात् सव्र्व्वेन्द्रियाभावेऽपि सव्वन्द्रियकर्मकृच्छक्तिमत्त्वमुक्तम्- “अपाणिपादो जवनो ग्रहीता पश्यत्यचक्षुः स शृणोत्कणः । स वेत्ति वेद्य ं न च तस्य वेत्ता तमाहुरग्रां पुरुषं महान्तम् ॥” इति । एवंविधसहस्रशीर्षादियः पुरुषस्तस्याव्याकृतं परमव्योमरूपं (सर्व्वाङ्ग) स्वाङ्गुलिमानेन चतुरशीत्यङ्गुलमधस्ताच्चतुःसप्तत्यङ्गुलपरव्योम्ना स भूमिमष्टलोकी
For Private and Personal Use Only
-