________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
८५८
चरक संहिता |
| यज्जःपुरुषीयः
आभासमाना हिरण्यवदाभासा गायत्री नाम देवता परमसूक्ष्मध्वनिभिरवरुद्धातिपरव्योमरूपा बभूव । सा वाक् सा सरस्वती सा दुर्गा सा सावित्रीत्येवमादिसमाख्याभिरभिहिता । सा शक्तिः स्वयमेवैतत्तेजोऽवन्नं तत् संहतरूपा गायत्री चेत्येवं सर्व्वं सदजायतेत्यभिहितम् । "असद्वा इदमग्र आसीत ततो वै सदजायत ।” इति । सेयं देवता गायत्री पुनरेव स्वस्थानि तेजोऽवन्नानि परिणमयन्ती विद्या शान्तिः प्रतिष्ठा निवृत्तिरिति चतस्रः शक्तयो भूत्वैकीभूय परमव्योमरूपचतुर्व्यूहः प्रथमो जीव एव पर आत्मा वभूव स स्वयः सुष्ठु अयः शुभावहविधिरूपस्तस्मात् तत् सुकृतं कारणीभूतधर्मरूपमुच्यते । राशिपुरुषे
शुभाशुभ धर्माधर्मरूपो भवति । तदुक्त “ तदात्मानं स्वयमकुरुत तस्मात्तत् सुकृतमुच्यते " इति । एष सर्व्वं मन्वानो मनो ब्रह्म । सा गायत्री वाग्ब्रह्मतया वदन्नयञ्च वाग्ब्रह्म । गायत्रीस्थमन्नं ब्रह्म यत्तेनायं विश्वं विभ्रदन्नं ब्रह्म । याश्चापो गायत्री स्थास्ताः प्राणो ब्रह्म तेन प्राणेनायञ्च प्राणन् प्राणो ब्रह्म । यत्तद् गायत्रीस्थं तेजश्चक्षुर्ब्रह्म । तेन चक्षुषा चायं पश्यंश्चक्षुर्ब्रह्म । याच सा प्राक् सर्गादेका शक्तिरासीत् क्रियागुणव्यपदेशाभावादसत् खलु शून्यमिवातिपरमव्योम तच्छ्रोत्रं ब्रह्म । तेन चायं शृण्वन् श्रोत्रं ब्रह्मत्यात्मषट्क एष पुरुषः प्रथम संहतरूपः इति पड़धातुरादिपुरुषः । तस्माज्जातश्चेतनाधातुरव्यक्तं नामात्मा ।
"
Acharya Shri Kailassagarsuri Gyanmandir
स च खादयश्च पञ्चेति पड़धातुजानि चतुविंशतिस्तत्त्वानि तैजसाख्यः सूक्ष्मशरीरी पड्धातुः पुरुषः । तद्यथा - सेयं गायत्री देवी खल्वेवं पर आत्मा स्वयं सुकृतं परमव्योम व्योमेव प्रतिकृतिरीशो व्योमकोऽनन्तशक्तिमान् भूत्वा पुनर्हन्ताहमिमास्तिस्रो देवतास्तेजोऽवन्नाख्या अनेन जीवेनात्मना परमव्योम्ना व्योमकेशेनानुप्रविश्य निखिलस्य नामरूपे व्याकरवाणीति । तासां तिसृणां देवतानां तेजोऽवन्नानामेकैकां त्रिवृतं त्रिवृतं करवाणीति चालोचयाञ्चकार । ततः सा तेनैकीभूय तस्य परमव्योम्नः शिवस्यादिजीवस्यादिभूतत्वादादित्यस्य परमपुरुषस्य ज्योतिः स्वरूपेणावर्त्तत । 1 स हि सर्व्वं तथा सूते इति सविता । सा च सावित्री तत् सवितुर्वरेण्यम् । तदमृतं तत् परं ब्रह्मह सर्गावस्थायामिति । स खलु परमव्योम परमपुरुषः शिवोऽनन्तशक्तिमानजः स विष्णुर्ब्रह्मा सोऽग्निरिन्द्रः स्वाङ्गलिपरिमाणेन हेत्वन्तरमाह - सन्तीत्यादि । अहितशब्दरूपादिजन्ये विकारे न रसः कारणमित्यर्थः । आत्मा पृथिव्यादीनि च पञ्च पड़ धातव; यदुक्त - " खादयश्चेतनापष्ठा धातवः पुरुषः स्मृतः” ॥ ७ ॥
For Private and Personal Use Only