________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२५श अध्यायः ] सूत्रस्थानम् ।
८५७ तस्याः शक्तमू लाभावादमूलं तद्ब्रह्म । सा शक्तिः प्राक् सर्गात् स्वप्रभावैगुणांशै. निगूढासीत् । तस्या अतिपरमव्योमरूपो मुख्यांशोऽपरिणामी। गुणांशस्तु प्रभावः परिणामी । क्षीरवत् । यथा क्षीरस्य स्नेहांशोऽपरिणामी मुख्यः । स्नेहातिरिक्तो द्रवांशः परिणामी गुणांशः । तद्गुणीभूतद्रवांशविशिष्टो मुख्यांशस्नेह एकमेव क्षीरं न द्वितीयम् । तथा शक्तिरेवासद्ब्रह्म सदेव तदगुणाख्य. प्रभाव विशिष्टमतिपरमव्योममुख्यांशभूतमेकमेवाद्वितीयम्, यथैवालोककृत् प्रभावविशिष्टं वनग्रादीनां रूपमेकमेवाद्वितीयम्। न हि रूपादतिरिक्त आलोककृत प्रभावः। न हि स प्रभावो द्रव्यं क्रियागुणाभावात् । न वा रूपादन्यो गुणो गुणे रूपे वृत्त्यसम्भवात् । न वा कम्मे रूपे गुणे तृत्त्यदर्शनात् । न च समवायो मेलकवासामर्थ्यात् । तस्माद रूपादनन्य एवालोककृत् प्रभावो घनाघनखाभ्यां रूपालोकाख्याभ्यां व्यपदेशः। तथातिपरमव्योमप्रभावयोरपृथगभावादेकत्वं न च विजातीयतत्वं मुख्यांशभूता च शक्तिगुणांशभूतप्रभावश्च तच्छक्तिरिति शक्तित्वेन विजातीयवाभावान्मुख्यांशगुणांशवाभ्यां द्वैतत्वेऽपि सजातीयवादेकत्वं शक्तिखात् ततो न द्वितीयमिति । सगकालरूपे तस्याः प्रभाव विशेष समुद्रिक्ते सति सा शक्तिरेव सद्ब्रह्म प्रसुप्तादुत्थितमिव किमपि नास्तीति दृष्ट्वा बहु स्यां प्रजायेयेत्यालोचयाञ्चकार। ततस्तत्तेजोऽसृजत । तच्च लोहितमिव न तु लोहितं रूपं सर्वेषां तेजसां मूलं तेजः उष्णत्वं क्रमेण स्थूलं सत् तेजसि यात्मके भूतेऽभिव्यक्तं लोहितं रूपं भवति। तच्चक्षुब्रह्म। तत्तेज ऐक्षत। बहु स्यां प्रजायेयेत्यालोचयाञ्चकार। तदपोऽसृजत। ताः पुनः शुक्ला इव न तु शुक्लरूपं सर्वासामपां मूलं क्रमेण स्थूला भूखा चतुरात्मिकास्वप्स्वभिव्यक्ताः शुक्लरूपं भवति । ता अमृतं मधुररस इव न तु मधुरो रसः सर्वस्य मधुररसस्य मूलं क्रमेण स्थूलं भूखा पाञ्चभौतिके भूम्यवगुणबहुलेऽभिव्यक्तो मधुररसो भवति। ता आपः प्राणो ब्रह्म। ता आप ऐक्षन्त बहु स्याम प्रजायेमहीति। बहु स्याम प्रजायेमहीत्यालोच्य ता आपोऽन्नमसृजन्त । तच्चान्नं कृष्णमिव न तु कृष्णरूपं सर्वेषामन्नानां मूलमन्नं पृथिवीतत्त्वं क्रमेण स्थूलं सत् पञ्चात्मिकायां पृथिव्यामभिव्यक्तं कृष्णरूपं भवति। तदगन्ध इव न तु गन्धः सर्वेषां गन्धानां मूलं क्रमेण स्थूलं सत् पृथिवीबहुले पाञ्चभौतिकेऽभिव्यक्तं गन्धो भवति। तदन्न ब्रह्म। आभिस्तेजोऽबन्नाख्याभिस्तिमृभिर्देवताभिरेकीभूताभिविशिष्टा सा शक्तिब्रह्म लोहितशुक्लकृष्णवत् भात्मा चातीन्द्रियः, तस्मान्न रसजौ, रसादि जायमानं कारणगुणानुविधानादेन्द्रियकं स्यादित्यर्थः;
For Private and Personal Use Only